View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

राहु अष्टोत्तर शत नाम स्तोत्रम्

शृणु नामानि राहोश्च सैंहिकेयो विधुंतुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ 1 ॥

सुरागुर्नीलजीमूतसंकाशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥ 2 ॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकवान् ।
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ 3 ॥

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनंदनो भुजगेश्वरः ॥ 4 ॥

उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसंप्रदः ॥ 5 ॥

रवींदुभीकरश्छायास्वरूपी कठिनांगकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयंकरः ॥ 6 ॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामंतवर्त्मगः ॥ 7 ॥

चांडालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ 8 ॥

उपरागकरः सूर्यहिमांशुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ 9 ॥

कबंधमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविंदवरपात्रं च देवजातिप्रविष्टकः ॥ 10 ॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगंगास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ 11 ॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चंद्रयुक्ते तु चंडालजन्मसूचक एव तु ॥ 12 ॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तको ज्ञानदश्च सः ॥ 13 ॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहंता च पंचमे शोकदायकः ॥ 14 ॥

द्यूने कलत्रहंता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ 15 ॥

नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशः प्रदाता च अंते वैरप्रदायकः ॥ 16 ॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पंचमे धिषणाशृंगदः स्वर्भानुर्बली तथा ॥ 17 ॥

महासौख्यप्रदायी च चंद्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शांभवः पूज्यकस्तथा ॥ 18 ॥

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोऽतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ 19 ॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्वसंकटात् ।
सर्वसंपत्करस्तस्य राहुरिष्टप्रदायकः ॥ 21 ॥

इति श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: