ॐ नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः ॥ 1 ॥
नमो देवादिदेवाय देहसंचारहेतवे
दैत्यसंघविनाशाय नकाराय नमो नमः ॥ 2 ॥
मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वंदे मोकाराय नमो नमः ॥ 3 ॥
नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ 4 ॥
रामचंद्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वंदे राकाराय नमो नमः ॥ 5 ॥
यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च
यज्ञांगरूपिणे तुभ्यं यकाराय नमो नमः ॥ 6 ॥
णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वंदे णाकाराय नमो नमः ॥ 7 ॥
यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ 8 ॥
इति श्री नारायण अष्टाक्षरी स्तुतिः ।