वैशाखे मासि कृष्णायां दशम्यां मंदवासरे ।
पूर्वाभाद्रा प्रभूताय मंगलं श्रीहनूमते ॥ 1 ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकंठाय मंगलं श्रीहनूमते ॥ 2 ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मंगलं श्रीहनूमते ॥ 3 ॥
दिव्यमंगलदेहाय पीतांबरधराय च ।
तप्तकांचनवर्णाय मंगलं श्रीहनूमते ॥ 4 ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय मंगलं श्रीहनूमते ॥ 5 ॥
रंभावनविहाराय गंधमादनवासिने ।
सर्वलोकैकनाथाय मंगलं श्रीहनूमते ॥ 6 ॥
पंचाननाय भीमाय कालनेमिहराय च ।
कौंडिन्यगोत्रजाताय मंगलं श्रीहनूमते ॥ 7 ॥
केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मंगलं श्रीहनूमते ॥ 8 ॥
इति श्री हनुमान् मंगलाष्टकम् ।