वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रा प्रभूताय मङ्गलं श्रीहनूमते ॥ 1 ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय मङ्गलं श्रीहनूमते ॥ 2 ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ 3 ॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ 4 ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ 5 ॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ 6 ॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ 7 ॥
केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते ॥ 8 ॥
इति श्री हनुमान् मङ्गलाष्टकम् ।