| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
महा गणपति मन्त्रविग्रह कवचम् ॐ अस्य श्रीमहागणपति मन्त्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता । ॐ श्रीं ह्रीं क्लीं ग्लौं गं बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः । न्यासः । ध्यानम् – इति ध्यात्वा । लं इत्यादि मानसोपचारैः सम्पूज्य कवचं पठेत् । ओङ्कारो मे शिरः पातु श्रीङ्कारः पातु फालकम् । ग्लौं बीजं नेत्रयोः पातु गं बीजं पातु नासिकाम् । णकारो दन्तयोः पातु पकारो लम्बिकां मम । वकारः कण्ठदेशेऽव्याद्रकारश्चोपकण्ठके । रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम । र्वकारः पातु मे लिङ्गं जकारः पातु गुह्यके । वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः । नकारस्तु सदा पातु वामपादाङ्गुलीषु च । स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा । पूर्वे मां पातु श्रीरुद्रः श्रीं ह्रीं क्लीं फट् कलाधरः । दक्षिणे श्रीयमः पातु क्रीं ह्रं ऐं ह्रीं ह्स्रौं नमः । पश्चिमे वरुणः पातु श्रीं ह्रीं क्लीं फट् ह्स्रौं नमः । उत्तरे धनदः पातु श्रीं ह्रीं श्रीं ह्रीं धनेश्वरः । प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः । अनन्ताय नमः स्वाहा अधस्ताद्दिशि रक्षतु । पश्चिमे पातु मां दुर्गा ऐं ह्रीं क्लीं चण्डिका शिवा । स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः । आग्नेय्यां पातु नो ह्रीं ह्रीं ह्रुं क्रों क्रों रुरुभैरवः । नैरृत्ये पातु मां ह्रीं ह्रूं ह्रौं ह्रौं ह्रीं ह्स्रैं नमो नमः । पश्चिमे ईश्वरः पातु क्रीं क्लीं उन्मत्तभैरवः । उत्तरे पातु मां देवो ह्रीं ह्रीं भीषणभैरवः । ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः । इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । जननीजारवद्गोप्या विद्यैषेत्यागमा जगुः । भौमेऽवश्यं पठेद्धीरो मोहयत्यखिलं जगत् । त्रिरावृत्या राजवश्यं तुर्यावृत्याऽखिलाः प्रजाः । सप्तावृत्या सभावश्या अष्टावृत्या भुवः श्रियम् । दशावृत्तीः पठेन्नित्यं षण्मासाभ्यासयोगतः । कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः । अर्धरात्रे समुत्थाय चतुर्थ्यां भृगुवासरे । सावधानेन मनसा पठेदेकोत्तरं शतम् । इदं कवचमज्ञात्वा गणेशं भजते नरः । पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव सकृत् पठेत् । भूर्जे लिखित्वा स्वर्णस्तां गुटिकां धारयेद्यदि । न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च । गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । इति श्रीदेवीरहस्ये श्रीमहागणपति मन्त्रविग्रहकवचं सम्पूर्णम् ।
|