View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अंगारक अष्टोत्तर शत नाम स्तोत्रम्

महीसुतो महाभागो मंगलो मंगलप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥

महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानदोऽमर्षणः क्रूरस्तापपापविवर्जितः ॥ 2 ॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तंभादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसंचारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरः शुभलक्षणः ॥ 5 ॥

वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसंचारो नानाभयनिकृंतनः ॥ 6 ॥

कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥

शत्रुहंता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाऽध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।
दुश्चेष्टवारको दुःखभंजनो दुर्धरो हरिः ॥ 9 ॥

दुःस्वप्नहंता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥

रक्तांबरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहोऽमिताशनः ॥ 11 ॥

शक्तिशूलधरः शक्तः शस्त्रविद्याविशारदः ।
तार्किकस्तामसाधारस्तपस्वी ताम्रलोचनः ॥ 12 ॥

तप्तकांचनसंकाशो रक्तकिंजल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥

असृगंगारकोऽवंतीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ 14 ॥

त्रिकोणमंडलगतस्त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥

इति श्री अंगारकाष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: