View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

बृहस्पति अष्टोत्तर शत नाम स्तोत्रम्

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः ।
गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरव्ययः ॥ 1 ॥

जेता जयंतो जयदो जीवोऽनंतो जयावहः ।
आंगीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ 2 ॥

वाचस्पतिर्वशी वश्यो वरिष्ठो वाग्विचक्षणः ।
चित्तशुद्धिकरः श्रीमान् चैत्रः चित्रशिखंडिजः ॥ 3 ॥

बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टदः ।
सुराचार्यः सुराराध्यः सुरकार्यहितंकरः ॥ 4 ॥

गीर्वाणपोषको धन्यो गीष्पतिर्गिरिशोऽनघः ।
धीवरो धिषणो दिव्यभूषणो देवपूजितः ॥ 5 ॥

धनुर्धरो दैत्यहंता दयासारो दयाकरः ।
दारिद्र्यनाशको धन्यो दक्षिणायनसंभवः ॥ 6 ॥

धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः ।
आंगीरसाब्जसंजातः आंगीरसकुलोद्भवः ॥ 7 ॥

सिंधुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः ।
हेमांगदो हेमवपुर्हेमभूषणभूषितः ॥ 8 ॥

पुष्यनाथः पुष्यरागमणिमंडलमंडितः ।
काशपुष्पसमानाभः कलिदोषनिवारकः ॥ 9 ॥

इंद्रादिदेवोदेवेशो देवताभीष्टदायकः ।
असमानबलः सत्त्वगुणसंपद्विभासुरः ॥ 10 ॥

भूसुराभीष्टदो भूरियशः पुण्यविवर्धनः ।
धर्मरूपो धनाध्यक्षो धनदो धर्मपालनः ॥ 11 ॥

सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः ।
सर्वपापप्रशमनः स्वमतानुगतामरः ॥ 12 ॥

ऋग्वेदपारगो ऋक्षराशिमार्गप्रचारकः ।
सदानंदः सत्यसंधः सत्यसंकल्पमानसः ॥ 13 ॥

सर्वागमज्ञः सर्वज्ञः सर्ववेदांतविद्वरः ।
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ॥ 14 ॥

समानाधिकनिर्मुक्तः सर्वलोकवशंवदः ।
ससुरासुरगंधर्ववंदितः सत्यभाषणः ॥ 15 ॥

नमः सुरेंद्रवंद्याय देवाचार्याय ते नमः ।
नमस्तेऽनंतसामर्थ्य वेदसिद्धांतपारगः ॥ 16 ॥

सदानंद नमस्तेऽस्तु नमः पीडाहराय च ।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ॥ 17 ॥

नमोऽद्वितीयरूपाय लंबकूर्चाय ते नमः ।
नमः प्रहृष्टनेत्राय विप्राणां पतये नमः ॥ 18 ॥

नमो भार्गवशिष्याय विपन्नहितकारिणे ।
नमस्ते सुरसैन्यानां विपत्तित्राणहेतवे ॥ 19 ॥

बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः ।
लोकत्रयगुरुः श्रीमान् सर्वगः सर्वतोविभुः ॥ 20 ॥

सर्वेशः सर्वदातुष्टः सर्वदः सर्वपूजितः ।
अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता ॥ 21 ॥

विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः ।
भूर्भुवोधनदाता च भर्ताजीवो महाबलः ॥ 22 ॥

बृहस्पतिः काश्यपेयो दयावान् शुभलक्षणः ।
अभीष्टफलदः श्रीमान् शुभग्रह नमोऽस्तु ते ॥ 23 ॥

बृहस्पतिः सुराचार्यो देवासुरसुपूजितः ।
आचार्योदानवारिश्च सुरमंत्री पुरोहितः ॥ 24 ॥

कालज्ञः कालृग्वेत्ता चित्तगश्च प्रजापतिः ।
विष्णुः कृष्णः सदासूक्ष्मः प्रतिदेवोज्ज्वलग्रहः ॥ 25 ॥

इति श्री बृहस्पति अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: