गजाननाय गांगेयसहजाय सदात्मने ।
गौरीप्रियतनूजाय गणेशायास्तु मंगलम् ॥ 1 ॥
नागयज्ञोपवीताय नतविघ्नविनाशिने ।
नंद्यादिगणनाथाय नायकायास्तु मंगलम् ॥ 2 ॥
इभवक्त्राय चेंद्रादिवंदिताय चिदात्मने ।
ईशानप्रेमपात्राय चेष्टदायास्तु मंगलम् ॥ 3 ॥
सुमुखाय सुशुंडाग्रोक्षिप्तामृतघटाय च ।
सुरबृंदनिषेव्याय सुखदायास्तु मंगलम् ॥ 4 ॥
चतुर्भुजाय चंद्रार्धविलसन्मस्तकाय च ।
चरणावनतानर्थ तारणायास्तु मंगलम् ॥ 5 ॥
वक्रतुंडाय वटवे वंद्याय वरदाय च ।
विरूपाक्षसुतायास्तु विघ्ननाशाय मंगलम् ॥ 6 ॥
प्रमोदामोदरूपाय सिद्धिविज्ञानरूपिणे ।
प्रकृष्टपापनाशाय फलदायास्तु मंगलम् ॥ 7 ॥
मंगलं गणनाथाय मंगलं हरसूनवे ।
मंगलं विघ्नराजाय विघ्नहर्त्रेस्तु मंगलम् ॥ 8 ॥
श्लोकाष्टकमिदं पुण्यं मंगलप्रदमादरात् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ 9 ॥
इति श्री गणपति मंगलाष्टकम् ।