View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गणेश मानस पूज

गृत्समद उवाच ।
विघ्नेशवीर्याणि विचित्रकाणि
बंदीजनैर्मागधकैः स्मृतानि ।
श्रुत्वा समुत्तिष्ठ गजानन त्वं
ब्राह्मे जगन्मंगलकं कुरुष्व ॥ 1 ॥

एवं मया प्रार्थित विघ्नराज-
-श्चित्तेन चोत्थाय बहिर्गणेशः ।
तं निर्गतं वीक्ष्य नमंति देवाः
शंभ्वादयो योगिमुखास्तथाहम् ॥ 2 ॥

शौचादिकं ते परिकल्पयामि
हेरंब वै दंतविशुद्धिमेवम् ।
वस्त्रेण संप्रोक्ष्य मुखारविंदं
देवं सभायां विनिवेशयामि ॥ 3 ॥

द्विजादिसर्वैरभिवंदितं च
शुकादिभिर्मोदसुमोदकाद्यैः ।
संभाष्य चालोक्य समुत्थितं तं
सुमंडपं कल्प्य निवेशयामि ॥ 4 ॥

रत्नैः सुदीप्तैः प्रतिबिंबितं तं
पश्यामि चित्तेन विनायकं च ।
तत्रासनं रत्नसुवर्णयुक्तं
संकल्प्य देवं विनिवेशयामि ॥ 5 ॥

सिद्ध्या च बुद्ध्या सह विघ्नराज
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥ 6 ॥

ततः सुवस्त्रेण गणेशमादौ
संप्रोक्ष्य दूर्वादिभिरर्चयामि ।
चित्तेन भावप्रिय दीनबंधो
मनो विलीनं कुरु ते पदाब्जे ॥ 7 ॥

कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण ।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥ 8 ॥

प्रवालमुक्ताफलहाटकाद्यैः
सुसंस्कृतं ह्यंतरभावकेन ।
अनर्घ्यमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज ढुंढे ॥ 9 ॥

सौगंध्ययुक्तं मधुपर्कमाद्यं
संकल्पितं भावयुतं गृहाण ।
पुनस्तथाचम्य विनायक त्वं
भक्तांश्च भक्तेश सुरक्षयाशु ॥ 10 ॥

सुवासितं चंपकजातिकाद्यै-
-स्तैलं मया कल्पितमेव ढुंढे ।
गृहाण तेन प्रविमर्दयामि
सर्वांगमेवं तव सेवनाय ॥ 11 ॥

ततः सुखोष्णेन जलेन चाह-
-मनेकतीर्थाहृतकेन ढुंढे ।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥ 12 ॥

ततः पयःस्नानमचिंत्यभाव
गृहाण तोयस्य तथा गणेश ।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥ 13 ॥

ततो घृतस्नानमपारवंद्य
सुतीर्थजं विघ्नहर प्रसीद ।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥ 14 ॥

सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव ढुंढे ।
ततो जलस्नानमघापहंतृ
विघ्नेश मायाभ्रमं वारयाशु ॥ 15 ॥

सुयक्षपंकस्थमथो गृहाण
स्नानं परेशाधिपते ततश्च ।
कौमंडलीसंभवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु ॥ 16 ॥

ततस्तु सूक्तैर्मनसा गणेशं
संपूज्य दूर्वादिभिरल्पभावैः ।
अपारकैर्मंडलभूतब्रह्म-
-णस्पत्यकैस्तं ह्यभिषेचयामि ॥ 17 ॥

ततः सुवस्त्रेण तु प्रोंछनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन ढुंढे
ह्याचांतमेवं कुरु विघ्नराज ॥ 18 ॥

अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घ्यमौल्ये मनसा मया ते ।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय ॥ 19 ॥

आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं मुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो यथा तारकसंयुतं तु ॥ 20 ॥

यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम् ।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥ 21 ॥

आचांतमेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन ढुंढे ।
पुनश्च कौमंडलकेन पाहि विश्वं
प्रभो खेलकरं सदा ते ॥ 22 ॥

उद्यद्दिनेशाभमथो गृहाण
सिंदूरकं ते मनसा प्रदत्तम् ।
सर्वांगसंलेपनमादराद्वै
कुरुष्व हेरंब च तेन पूर्णम् ॥ 23 ॥

सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै ।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥ 24 ॥

विचित्ररत्नैः कनकेन ढुंढे
युतानि चित्तेन मया परेश ।
दत्तानि नानापदकुंडलानि
गृहाण शूर्पश्रुतिभूषणाय ॥ 25 ॥

शुंडाविभूषार्थमनंतखेलिन्
सुवर्णजं कंचुकमागृहाण ।
रत्नैश्च युक्तं मनसा मया य-
-द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ 26 ॥

सुवर्णरत्नैश्च युतानि ढुंढे
सदैकदंताभरणानि कल्प्य ।
गृहाण चूडाकृतये परेश
दत्तानि दंतस्य च शोभनार्थम् ॥ 27 ॥

रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य ।
संभूषय त्वं कटकानि नाथ
चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ 28 ॥

विचित्ररत्नैः खचितं सुवर्ण-
-संभूतकं गृह्य मया प्रदत्तम् ।
तथांगुलीष्वंगुलिकं गणेश
चित्तेन संशोभय तत्परेश ॥ 29 ॥

विचित्ररत्नैः खचितानि ढुंढे
केयूरकाणि ह्यथ कल्पितानि ।
सुवर्णजानि प्रमथाधिनाथ
गृहाण दत्तानि तु बाहुषु त्वम् ॥ 30 ॥

प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कंठे ।
चित्तेन दत्ता विविधाश्च माला
उरोदरे शोभय विघ्नराज ॥ 31 ॥

चंद्रं ललाटे गणनाथ पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम् ।
संशोभय त्वं वरसंयुतं ते
भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ 32 ॥

चिंतामणिं चिंतितदं परेश
हृद्देशगं ज्योतिर्मयं कुरुष्व ।
मणिं सदानंदसुखप्रदं च
विघ्नेश दीनार्थद पालयस्व ॥ 33 ॥

नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ ।
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश ॥ 34 ॥

कटीतटे रत्नसुवर्णयुक्तां
कांचीं सुचित्तेन च धारयामि ।
विघ्नेश ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥ 35 ॥

हेरंब ते रत्नसुवर्णयुक्ते
सुनूपुरे मंजिरके तथैव ।
सुकिंकिणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥ 36 ॥

इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि ।
संभूषयाम्येव त्वदंगकेषु
विचित्रधातुप्रभवानि ढुंढे ॥ 37 ॥

सुचंदनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टकगंधमुख्यैः ।
युक्तं मया कल्पितमेकदंत
गृहाण ते त्वंगविलेपनार्थम् ॥ 38 ॥

लिप्तेषु वैचित्र्यमथाष्टगंधै-
-रंगेषु तेऽहं प्रकरोमि चित्रम् ।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥ 39 ॥

घृतेन वै कुंकुमकेन रक्तान्
सुतंडुलांस्ते परिकल्पयामि ।
फाले गणाध्यक्ष गृहाण पाहि
भक्तान् सुभक्तिप्रिय दीनबंधो ॥ 40 ॥

गृहाण भो चंपकमालतीनि
जलपंकजानि स्थलपंकजानि ।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥ 41 ॥

पुष्पोपरि त्वं मनसा गृहाण
हेरंब मंदारशमीदलानि ।
मया सुचित्तेन प्रकल्पितानि
ह्यपारकाणि प्रणवाकृते तु ॥ 42 ॥

दूर्वांकुरान्वै मनसा प्रदत्तां-
-स्त्रिपंचपत्रैर्युतकांश्च स्निग्धान् ।
गृहाण विघ्नेश्वर संख्यया त्वं
हीनांश्च सर्वोपरि वक्रतुंड ॥ 43 ॥

दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज ढुंढे ।
गृहाण सौरभ्यकरं परेश
सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ 44 ॥

दीपं सुवर्त्या युतमादरात्ते
दत्तं मया मानसकं गणेश ।
गृहाण नानाविधजं घृतादि-
-तैलादिसंभूतममोघदृष्टे ॥ 45 ॥

भोज्यं च लेह्यं गणराज पेयं
चोष्यं च नानाविधषड्रसाढ्यम् ।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥ 46 ॥

सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण ।
कमंडलुस्थं मनसा गणेश
पिबस्व विश्वादिकतृप्तिकारिन् ॥ 47 ॥

ततः करोद्वर्तनकं गृहाण
सौगंध्ययुक्तं मुखमार्जनाय ।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण ढुंढे ॥ 48 ॥

पुनस्तथाचम्य सुवासितं च
दत्तं मया तीर्थजलं पिबस्व ।
प्रकल्प्य विघ्नेश ततः परं ते
संप्रोंछनं हस्तमुखे करोमि ॥ 49 ॥

द्राक्षादिरंभाफलचूतकानि
खार्जूरकार्कंधुकदाडिमानि ।
सुस्वादयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि ढुंढे ॥ 50 ॥

पुनर्जलेनैव करादिकं ते
संक्षालयामि मनसा गणेश ।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश ॥ 51 ॥

अष्टांगयुक्तं गणनाथ दत्तं
तांबूलकं ते मनसा मया वै ।
गृहाण विघ्नेश्वर भावयुक्तं
सदा सकृत्तुंडविशोधनार्थम् ॥ 52 ॥

ततो मया कल्पितके गणेश
महासने रत्नसुवर्णयुक्ते ।
मंदारकार्पासकयुक्तवस्त्रै-
-रनर्घ्यसंछादितके प्रसीद ॥ 53 ॥

ततस्त्वदीयावरणं परेश
संपूजयामि मनसा यथावत् ।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामार्थमनाथबंधो ॥ 54 ॥

गृहाण लंबोदर दक्षिणां ते
ह्यसंख्यभूतां मनसा प्रदत्ताम् ।
सौवर्णमुद्रादिकमुख्यभावां
पाहि प्रभो विश्वमिदं गणेश ॥ 55 ॥

राजोपचारान्विविधान्गृहाण
हस्त्यश्वछत्रादिकमादराद्वै ।
चित्तेन दत्तान् गणनाथ ढुंढे
ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥ 56 ॥

दानाय नानाविधरूपकांस्ते
गृहाण दत्तान्मनसा मया वै ।
पदार्थभूतान् स्थिरजंगमांश्च
हेरंब मां तारय मोहभावात् ॥ 57 ॥

मंदारपुष्पाणि शमीदलानि
दूर्वांकुरांस्ते मनसा ददामि ।
हेरंब लंबोदर दीनपाल
गृहाण भक्तं कुरु मां पदे ते ॥ 58 ॥

ततो हरिद्रामबिरं गुलालं
सिंदूरकं ते परिकल्पयामि ।
सुवासितं वस्तु सुवासभूतै-
-र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ 59 ॥

ततः शुकाद्याः शिवविष्णुमुख्या
इंद्रादयः शेषमुखास्तथान्ये ।
मुनींद्रकाः सेवकभावयुक्ताः
सभासनस्थं प्रणमंति ढुंढिम् ॥ 60 ॥

वामांगके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तम् ।
अत्यंतभावेन सुसेवते तु
मायास्वरूपा परमार्थभूता ॥ 61 ॥

गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः ।
विद्याभिरेवं भजते परेश
मायासु सांख्यप्रदचित्तरूपाः ॥ 62 ॥

प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजंते ।
भक्तेश्वरा मुद्गलशंभुमुख्याः
शुकादयस्तं स्म पुरो भजंते ॥ 63 ॥

गंधर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपम् ।
नृत्यं कलायुक्तमथो पुरस्ता-
-च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ 64 ॥

इत्यादिनानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि ।
चित्तेन ध्यात्वा तु निरंजनं वै
करोमि नानाविधदीपयुक्तम् ॥ 65 ॥

चतुर्भुजं पाशधरं गणेशं
तथांकुशं दंतयुतं तमेवम् ।
त्रिनेत्रयुक्तं त्वभयंकरं तं
महोदरं चैकरदं गजास्यम् ॥ 66 ॥

सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम् ।
ध्यायेद्गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम् ॥ 67 ॥

ततो जपं वै मनसा करोमि
स्वमूलमंत्रस्य विधानयुक्तम् ।
असंख्यभूतं गणराज हस्ते
समर्पयाम्येव गृहाण ढुंढे ॥ 68 ॥

आरार्तिकां कर्पूरकादिभूता-
-मपारदीपां प्रकरोमि पूर्णाम् ।
चित्तेन लंबोदर तां गृहाण
ह्यज्ञानध्वांताघहरां निजानाम् ॥ 69 ॥

वेदेषु विघ्नेश्वरकैः सुमंत्रैः
सुमंत्रितं पुष्पदलं प्रभूतम् ।
गृहाण चित्तेन मया प्रदत्त-
-मपारवृत्त्या त्वथ मंत्रपुष्पम् ॥ 70 ॥

अपारवृत्या स्तुतिमेकदंतं
गृहाण चित्तेन कृतां गणेश ।
युक्तां श्रुतिस्मार्तभवैः पुराणैः
सर्वैः परेशाधिपते मया ते ॥ 71 ॥

प्रदक्षिणा मानसकल्पितास्ता
गृहाण लंबोदर भावयुक्ताः ।
संख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥ 72 ॥

नतिं ततो विघ्नपते गृहाण
साष्टांगकाद्यां विविधस्वरूपाम् ।
संख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु ॥ 73 ॥

न्यूनातिरिक्तं तु मया कृतं चे-
-त्तदर्थमंते मनसा गृहाण ।
दूर्वांकुरान्विघ्नपते प्रदत्तान्
संपूर्णमेवं कुरु पूजनं मे ॥ 74 ॥

क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान् ।
भक्तिं मदीयां सफलां कुरुष्व
संप्रार्थयामि मनसा गणेश ॥ 75 ॥

ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवंद्य ।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ 76 ॥

उत्थाय विघ्नेश्वर एव तस्मा-
-द्गतस्ततस्त्वंतरधानशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिंतयामि ॥ 77 ॥

सर्वान्नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तम् ।
स्वस्थानमागत्य महानुभावै-
-र्भक्तैर्गणेशस्य च खेलयामि ॥ 78 ॥

एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि ।
तेनैव तुष्टः प्रददातु भावं
विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ 79 ॥

गणेशपादोदकपानकं च
ह्युच्छिष्टगंधस्य सुलेपनं तु ।
निर्माल्यसंधारणकं सुभोज्यं
लंबोदरस्यास्तु हि भुक्तशेषम् ॥ 80 ॥

यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश ।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥ 81 ॥

ततस्तु शय्यां परिकल्पयामि
मंदारकार्पासकवस्त्रयुक्ताम् ।
सुवासपुष्पादिभिरर्चितां
ते गृहाण निद्रां कुरु विघ्नराज ॥ 82 ॥

सिद्ध्या च बुद्ध्या सहितं गणेश
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ 83 ॥

एतादृशं सौख्यममोघशक्ते
देहि प्रभो मानसजं गणेश ।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तिरसलालसोऽहम् ॥ 84 ॥

गार्ग्य उवाच ।
एवं नित्यं महाराज गृत्समदो महायशाः ।
चकार मानसीं पूजां योगींद्राणां गुरुः स्वयम् ॥ 85 ॥

य एतां मानसीं पूजां करिष्यति नरोत्तमः ।
पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ 86 ॥

श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः ।
स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ 87 ॥

यं यमिच्छति तं तं वै सफलं तस्य जायते ।
अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥ 88 ॥

इति श्रीमदांत्ये मौद्गल्ये गणेशमानसपूजा संपूर्णम् ।




Browse Related Categories: