आ तू न॑ इंद्र क्षु॒मंतं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ 1 ॥
वि॒द्मा हि त्वा᳚ तुविकू॒र्मिंतु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ 2 ॥
न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्सं᳚तम् ।
भी॒मं न गां-वाँ॒रयं᳚ते ॥ 3 ॥
एतो॒न्विंद्रं॒ स्तवा॒मेशा᳚नं॒-वँस्वः॑ स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ 4 ॥
प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ 5 ॥
आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इंद्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ 6 ॥
उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेदः॑ ॥ 7 ॥
इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सुतं स॑नुहि ॥ 8 ॥
स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚-विँ॒श्वश्चं᳚द्राः ।
वशै᳚श्च म॒क्षू ज॑रंते ॥ 9 ॥
ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ 10 ॥
नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥ 11 ॥
अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑मानां॒त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ 12 ॥