ॐ हनुमते नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ वायुपुत्राय नमः ।
ॐ रुद्राय नमः ।
ॐ नयाय नमः ।
ॐ अजराय नमः ।
ॐ अमृत्यवे नमः ।
ॐ वीरवीराय नमः ।
ॐ ग्रामवासाय नमः ।
ॐ जनाश्रयाय नमः ।
ॐ धनदाय नमः ।
ॐ निर्गुणाकाराय नमः ।
ॐ वीराय नमः ।
ॐ निधिपतये नमः ।
ॐ मुनये नमः ।
ॐ पिंगाक्षाय नमः ।
ॐ वरदाय नमः ।
ॐ वाग्मिने नमः ।
ॐ सीताशोकविनाशनाय नमः ।
ॐ शिवाय नमः । 20
ॐ शर्वाय नमः ।
ॐ पराय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ धराधराय नमः ।
ॐ पिंगकेशाय नमः ।
ॐ पिंगरोमाय नमः ।
ॐ श्रुतिगम्याय नमः ।
ॐ सनातनाय नमः ।
ॐ अनादये नमः ।
ॐ भगवते नमः ।
ॐ दिव्याय नमः ।
ॐ विश्वहेतवे नमः ।
ॐ नराश्रयाय नमः ।
ॐ आरोग्यकर्त्रे नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ हरीश्वराय नमः ।
ॐ भर्गाय नमः ।
ॐ रामाय नमः । 40
ॐ रामभक्ताय नमः ।
ॐ कल्याणप्रकृतीश्वराय नमः ।
ॐ विश्वंभराय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वाकाराय नमः ।
ॐ विश्वपाय नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वसेव्याय नमः ।
ॐ विश्वाय नमः ।
ॐ विश्वधराय नमः ।
ॐ रवये नमः ।
ॐ विश्वचेष्टाय नमः ।
ॐ विश्वगम्याय नमः ।
ॐ विश्वध्येयाय नमः ।
ॐ कलाधराय नमः ।
ॐ प्लवंगमाय नमः ।
ॐ कपिश्रेष्ठाय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ वेद्याय नमः ।
ॐ वनेचराय नमः । 60
ॐ बालाय नमः ।
ॐ वृद्धाय नमः ।
ॐ यूने नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्वगम्याय नमः ।
ॐ सखिने नमः ।
ॐ अजाय नमः ।
ॐ अंजनासूनवे नमः ।
ॐ अव्यग्राय नमः ।
ॐ ग्रामस्यांताय नमः ।
ॐ धराधराय नमः ।
ॐ भूर्लोकाय नमः ।
ॐ भुवर्लोकाय नमः ।
ॐ स्वर्लोकाय नमः ।
ॐ महर्लोकाय नमः ।
ॐ जनोलोकाय नमः ।
ॐ तपोलोकाय नमः ।
ॐ अव्ययाय नमः ।
ॐ सत्याय नमः ।
ॐ ॐकारगम्याय नमः । 80
ॐ प्रणवाय नमः ।
ॐ व्यापकाय नमः ।
ॐ अमलाय नमः ।
ॐ शिवधर्मप्रतिष्ठात्रे नमः ।
ॐ रामेष्टाय नमः ।
ॐ फल्गुनप्रियाय नमः ।
ॐ गोष्पदीकृतवारीशाय नमः ।
ॐ पूर्णकामाय नमः ।
ॐ धरापतये नमः ।
ॐ रक्षोघ्नाय नमः ।
ॐ पुंडरीकाक्षाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ जानकीप्राणदात्रे नमः ।
ॐ रक्षःप्राणापहारकाय नमः ।
ॐ पूर्णाय नमः ।
ॐ सत्याय नमः ।
ॐ पीतवाससे नमः ।
ॐ दिवाकरसमप्रभाय नमः ।
ॐ द्रोणहर्त्रे नमः ।
ॐ शक्तिनेत्रे नमः । 100
ॐ शक्तिराक्षसमारकाय नमः ।
ॐ अक्षघ्नाय नमः ।
ॐ रामदूताय नमः ।
ॐ शाकिनीजीविताहराय नमः ।
ॐ बुभूकारहतारातये नमः ।
ॐ गर्वपर्वतमर्दनाय नमः ।
ॐ हेतवे नमः ।
ॐ अहेतवे नमः ।
ॐ प्रांशवे नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगन्नेत्रे नमः ।
ॐ जगदीशाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जगत्श्रिताय नमः ।
ॐ हरये नमः ।
ॐ श्रीशाय नमः ।
ॐ गरुडस्मयभंजकाय नमः ।
ॐ पार्थध्वजाय नमः । 120
ॐ वायुपुत्राय नमः ।
ॐ सितपुच्छाय नमः ।
ॐ अमितप्रभाय नमः ।
ॐ ब्रह्मपुच्छाय नमः ।
ॐ परब्रह्मपुच्छाय नमः ।
ॐ रामेष्टकारकाय नमः ।
ॐ सुग्रीवादियुताय नमः ।
ॐ ज्ञानिने नमः ।
ॐ वानराय नमः ।
ॐ वानरेश्वराय नमः ।
ॐ कल्पस्थायिने नमः ।
ॐ चिरंजीविने नमः ।
ॐ प्रसन्नाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ सन्मतये नमः ।
ॐ सद्गतये नमः ।
ॐ भुक्तिमुक्तिदाय नमः ।
ॐ कीर्तिदायकाय नमः ।
ॐ कीर्तये नमः ।
ॐ कीर्तिप्रदाय नमः । 140
ॐ समुद्राय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ शिवाय नमः ।
ॐ उदधिक्रमणाय नमः ।
ॐ देवाय नमः ।
ॐ संसारभयनाशनाय नमः ।
ॐ वालिबंधनकृते नमः ।
ॐ विश्वजेत्रे नमः ।
ॐ विश्वप्रतिष्ठिताय नमः ।
ॐ लंकारये नमः ।
ॐ कालपुरुषाय नमः ।
ॐ लंकेशगृहभंजनाय नमः ।
ॐ भूतावासाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ वसवे नमः ।
ॐ त्रिभुवनेश्वराय नमः ।
ॐ श्रीरामरूपाय नमः ।
ॐ कृष्णरूपाय नमः ।
ॐ लंकाप्रासादभंजनाय नमः ।
ॐ कृष्णाय नमः । 160
ॐ कृष्णस्तुताय नमः ।
ॐ शांताय नमः ।
ॐ शांतिदाय नमः ।
ॐ विश्वभावनाय नमः ।
ॐ विश्वभोक्त्रे नमः ।
ॐ मारघ्नाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ जितेंद्रियाय नमः ।
ॐ ऊर्ध्वगाय नमः ।
ॐ लांगुलिने नमः ।
ॐ मालिने नमः ।
ॐ लांगूलाहतराक्षसाय नमः ।
ॐ समीरतनुजाय नमः ।
ॐ वीराय नमः ।
ॐ वीरमाराय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगन्मंगलदाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः ।
ॐ पुण्यकीर्तये नमः । 180
ॐ पुण्यगीतये नमः ।
ॐ जगत्पावनपावनाय नमः ।
ॐ देवेशाय नमः ।
ॐ अमितरोम्णे नमः ।
ॐ रामभक्तविधायकाय नमः ।
ॐ ध्यात्रे नमः ।
ॐ ध्येयाय नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ चेतसे नमः ।
ॐ चैतन्यविग्रहाय नमः ।
ॐ ज्ञानदाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणाय नमः ।
ॐ जगत्प्राणाय नमः ।
ॐ समीरणाय नमः ।
ॐ विभीषणप्रियाय नमः ।
ॐ शूराय नमः ।
ॐ पिप्पलाश्रयसिद्धिदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सिद्धाश्रयाय नमः । 200
ॐ कालाय नमः ।
ॐ कालभक्षकपूजिताय नमः ।
ॐ लंकेशनिधनस्थायिने नमः ।
ॐ लंकादाहकाय नमः ।
ॐ ईश्वराय नमः ।
ॐ चंद्रसूर्याग्निनेत्राय नमः ।
ॐ कालाग्नये नमः ।
ॐ प्रलयांतकाय नमः ।
ॐ कपिलाय नमः ।
ॐ कपिशाय नमः ।
ॐ पुण्यरातये नमः ।
ॐ द्वादशराशिगाय नमः ।
ॐ सर्वाश्रयाय नमः ।
ॐ अप्रमेयात्मने नमः ।
ॐ रेवत्यादिनिवारकाय नमः ।
ॐ लक्ष्मणप्राणदात्रे नमः ।
ॐ सीताजीवनहेतुकाय नमः ।
ॐ रामध्यायिने नमः ।
ॐ हृषीकेशाय नमः ।
ॐ विष्णुभक्ताय नमः । 220
ॐ जटिने नमः ।
ॐ बलिने नमः ।
ॐ देवारिदर्पघ्ने नमः ।
ॐ होत्रे नमः ।
ॐ धात्रे नमः ।
ॐ कर्त्रे नमः ।
ॐ जगत्प्रभवे नमः ।
ॐ नगरग्रामपालाय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ निरंतराय नमः ।
ॐ निरंजनाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ गुणातीताय नमः ।
ॐ भयंकराय नमः ।
ॐ हनुमते नमः ।
ॐ दुराराध्याय नमः ।
ॐ तपःसाध्याय नमः ।
ॐ महेश्वराय नमः ।
ॐ जानकीघनशोकोत्थतापहर्त्रे नमः । 240
ॐ पराशराय नमः ।
ॐ वाङ्मयाय नमः ।
ॐ सदसद्रूपाय नमः ।
ॐ कारणाय नमः ।
ॐ प्रकृतेः पराय नमः ।
ॐ भाग्यदाय नमः ।
ॐ निर्मलाय नमः ।
ॐ नेत्रे नमः ।
ॐ पुच्छलंकाविदाहकाय नमः ।
ॐ पुच्छबद्धाय नमः ।
ॐ यातुधानाय नमः ।
ॐ यातुधानरिपुप्रियाय नमः ।
ॐ छायापहारिणे नमः ।
ॐ भूतेशाय नमः ।
ॐ लोकेशाय नमः ।
ॐ सद्गतिप्रदाय नमः ।
ॐ प्लवंगमेश्वराय नमः ।
ॐ क्रोधाय नमः ।
ॐ क्रोधसंरक्तलोचनाय नमः ।
ॐ क्रोधहर्त्रे नमः । 260
ॐ तापहर्त्रे नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ भक्तानुकंपिने नमः ।
ॐ विश्वेशाय नमः ।
ॐ पुरुहूताय नमः ।
ॐ पुरंदराय नमः ।
ॐ अग्नये नमः ।
ॐ विभावसवे नमः ।
ॐ भास्वते नमः ।
ॐ यमाय नमः ।
ॐ निरृतये नमः ।
ॐ वरुणाय नमः ।
ॐ वायुगतिमते नमः ।
ॐ वायवे नमः ।
ॐ कुबेराय नमः ।
ॐ ईश्वराय नमः ।
ॐ रवये नमः ।
ॐ चंद्राय नमः ।
ॐ कुजाय नमः ।
ॐ सौम्याय नमः । 280
ॐ गुरवे नमः ।
ॐ काव्याय नमः ।
ॐ शनैश्चराय नमः ।
ॐ राहवे नमः ।
ॐ केतवे नमः ।
ॐ मरुते नमः ।
ॐ दात्रे नमः ।
ॐ धात्रे नमः ।
ॐ हर्त्रे नमः ।
ॐ समीरजाय नमः ।
ॐ मशकीकृतदेवारये नमः ।
ॐ दैत्यारये नमः ।
ॐ मधुसूदनाय नमः ।
ॐ कामाय नमः ।
ॐ कपये नमः ।
ॐ कामपालाय नमः ।
ॐ कपिलाय नमः ।
ॐ विश्वजीवनाय नमः ।
ॐ भागीरथीपदांभोजाय नमः ।
ॐ सेतुबंधविशारदाय नमः । 300
ॐ स्वाहायै नमः ।
ॐ स्वधायै नमः ।
ॐ हविषे नमः ।
ॐ कव्याय नमः ।
ॐ हव्यवाहाय नमः ।
ॐ प्रकाशकाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ महावीराय नमः ।
ॐ मधुराय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ उड्डीनोड्डीनगतिमते नमः ।
ॐ सद्गतये नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ जगदात्मने नमः ।
ॐ जगद्योनये नमः ।
ॐ जगदंताय नमः ।
ॐ अनंतराय नमः ।
ॐ विपाप्मने नमः ।
ॐ निष्कलंकाय नमः ।
ॐ महते नमः । 320
ॐ महदहंकृतये नमः ।
ॐ खाय नमः ।
ॐ वायवे नमः ।
ॐ पृथिव्यै नमः ।
ॐ अद्भ्यः नमः ।
ॐ वह्नये नमः ।
ॐ दिशे नमः ।
ॐ कालाय नमः ।
ॐ एकलाय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रपालाय नमः ।
ॐ पल्वलीकृतसागराय नमः ।
ॐ हिरण्मयाय नमः ।
ॐ पुराणाय नमः ।
ॐ खेचराय नमः ।
ॐ भूचराय नमः ।
ॐ मनवे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ सूत्रात्मने नमः ।
ॐ राजराजाय नमः । 340
ॐ विशां पतये नमः ।
ॐ वेदांतवेद्याय नमः ।
ॐ उद्गीथाय नमः ।
ॐ वेदांगाय नमः ।
ॐ वेदपारगाय नमः ।
ॐ प्रतिग्रामस्थिताय नमः ।
ॐ सद्यः स्फूर्तिदात्रे नमः ।
ॐ गुणाकराय नमः ।
ॐ नक्षत्रमालिने नमः ।
ॐ भूतात्मने नमः ।
ॐ सुरभये नमः ।
ॐ कल्पपादपाय नमः ।
ॐ चिंतामणये नमः ।
ॐ गुणनिधये नमः ।
ॐ प्रजाद्वाराय नमः ।
ॐ अनुत्तमाय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ पुरारातये नमः ।
ॐ मतिमते नमः ।
ॐ शर्वरीपतये नमः । 360
ॐ किल्किलारावसंत्रस्तभूतप्रेतपिशाचकाय नमः ।
ॐ ऋणत्रयहराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ स्थूलाय नमः ।
ॐ सर्वगतये नमः ।
ॐ पुंसे नमः ।
ॐ अपस्मारहराय नमः ।
ॐ स्मर्त्रे नमः ।
ॐ श्रुतये नमः ।
ॐ गाथाय नमः ।
ॐ स्मृतये नमः ।
ॐ मनवे नमः ।
ॐ स्वर्गद्वाराय नमः ।
ॐ प्रजाद्वाराय नमः ।
ॐ मोक्षद्वाराय नमः ।
ॐ यतीश्वराय नमः ।
ॐ नादरूपाय नमः ।
ॐ परस्मै ब्रह्मणे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मपुरातनाय नमः । 380
ॐ एकाय नमः ।
ॐ अनेकाय नमः ।
ॐ जनाय नमः ।
ॐ शुक्लाय नमः ।
ॐ स्वयंज्योतिषे नमः ।
ॐ अनाकुलाय नमः ।
ॐ ज्योतिर्ज्योतिषे नमः ।
ॐ अनादये नमः ।
ॐ सात्त्विकाय नमः ।
ॐ राजसाय नमः ।
ॐ तमसे नमः ।
ॐ तमोहर्त्रे नमः ।
ॐ निरालंबाय नमः ।
ॐ निराकाराय नमः ।
ॐ गुणाकराय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गुणमयाय नमः ।
ॐ बृहत्कायाय नमः ।
ॐ बृहद्यशसे नमः ।
ॐ बृहद्धनुषे नमः । 400
ॐ बृहत्पादाय नमः ।
ॐ बृहन्मूर्ध्ने नमः ।
ॐ बृहत्स्वनाय नमः ।
ॐ बृहत्कर्णाय नमः ।
ॐ बृहन्नासाय नमः ।
ॐ बृहद्बाहवे नमः ।
ॐ बृहत्तनवे नमः ।
ॐ बृहद्गलाय नमः ।
ॐ बृहत्कायाय नमः ।
ॐ बृहत्पुच्छाय नमः ।
ॐ बृहत्कराय नमः ।
ॐ बृहद्गतये नमः ।
ॐ बृहत्सेवाय नमः ।
ॐ बृहल्लोकफलप्रदाय नमः ।
ॐ बृहद्भक्तये नमः ।
ॐ बृहद्वांछाफलदाय नमः ।
ॐ बृहदीश्वराय नमः ।
ॐ बृहल्लोकनुताय नमः ।
ॐ द्रष्ट्रे नमः ।
ॐ विद्यादात्रे नमः । 420
ॐ जगद्गुरवे नमः ।
ॐ देवाचार्याय नमः ।
ॐ सत्यवादिने नमः ।
ॐ ब्रह्मवादिने नमः ।
ॐ कलाधराय नमः ।
ॐ सप्तपातालगामिने नमः ।
ॐ मलयाचलसंश्रयाय नमः ।
ॐ उत्तराशास्थिताय नमः ।
ॐ श्रीशाय नमः ।
ॐ दिव्यौषधिवशाय नमः ।
ॐ खगाय नमः ।
ॐ शाखामृगाय नमः ।
ॐ कपींद्राय नमः ।
ॐ पुराणाय नमः ।
ॐ प्राणचंचुराय नमः ।
ॐ चतुराय नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ योगिने नमः ।
ॐ योगिगम्याय नमः ।
ॐ पराय नमः । 440
ॐ अवराय नमः ।
ॐ अनादिनिधनाय नमः ।
ॐ व्यासाय नमः ।
ॐ वैकुंठाय नमः ।
ॐ पृथिवीपतये नमः ।
ॐ अपराजिताय नमः ।
ॐ जितारातये नमः ।
ॐ सदानंददाय नमः ।
ॐ ईशित्रे नमः ।
ॐ गोपालाय नमः ।
ॐ गोपतये नमः ।
ॐ योद्धाय नमः ।
ॐ कलये नमः ।
ॐ स्फालाय नमः ।
ॐ परात्पराय नमः ।
ॐ मनोवेगिने नमः ।
ॐ सदायोगिने नमः ।
ॐ संसारभयनाशनाय नमः ।
ॐ तत्त्वदात्रे नमः ।
ॐ तत्त्वज्ञाय नमः । 460
ॐ तत्त्वाय नमः ।
ॐ तत्त्वप्रकाशकाय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ नित्ययुक्ताय नमः ।
ॐ भक्ताकाराय नमः ।
ॐ जगद्रथाय नमः ।
ॐ प्रलयाय नमः ।
ॐ अमितमायाय नमः ।
ॐ मायातीताय नमः ।
ॐ विमत्सराय नमः ।
ॐ मायानिर्जितरक्षसे नमः ।
ॐ मायानिर्मितविष्टपाय नमः ।
ॐ मायाश्रयाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ मायानिर्वर्तकाय नमः ।
ॐ सुखिने नमः ।
ॐ सुखाय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ नागाय नमः । 480
ॐ महेशकृतसंस्तवाय नमः ।
ॐ महेश्वराय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ शरभाय नमः ।
ॐ कलिपावनाय नमः ।
ॐ रसाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ सते नमः ।
ॐ मानाय नमः ।
ॐ रूपाय नमः ।
ॐ चक्षुषे नमः ।
ॐ श्रुतये नमः ।
ॐ रवाय नमः ।
ॐ घ्राणाय नमः ।
ॐ गंधाय नमः ।
ॐ स्पर्शनाय नमः ।
ॐ स्पर्शाय नमः ।
ॐ हिंकारमानगाय नमः ।
ॐ नेतिनेतीतिगम्याय नमः ।
ॐ वैकुंठभजनप्रियाय नमः । 500
ॐ गिरिशाय नमः ।
ॐ गिरिजाकांताय नमः ।
ॐ दुर्वाससे नमः ।
ॐ कवये नमः ।
ॐ अंगिरसे नमः ।
ॐ भृगवे नमः ।
ॐ वसिष्ठाय नमः ।
ॐ च्यवनाय नमः ।
ॐ नारदाय नमः ।
ॐ तुंबुरवे नमः ।
ॐ हराय नमः ।
ॐ विश्वक्षेत्राय नमः ।
ॐ विश्वबीजाय नमः ।
ॐ विश्वनेत्राय नमः ।
ॐ विश्वपाय नमः ।
ॐ याजकाय नमः ।
ॐ यजमानाय नमः ।
ॐ पावकाय नमः ।
ॐ पितृभ्यः नमः ।
ॐ श्रद्धये नमः । 520
ॐ बुद्धये नमः ।
ॐ क्षमाय नमः ।
ॐ तंद्राय नमः ।
ॐ मंत्राय नमः ।
ॐ मंत्रयित्रे नमः ।
ॐ सुराय नमः ।
ॐ राजेंद्राय नमः ।
ॐ भूपतये नमः ।
ॐ रूढाय नमः ।
ॐ मालिने नमः ।
ॐ संसारसारथये नमः ।
ॐ नित्याय नमः ।
ॐ संपूर्णकामाय नमः ।
ॐ भक्तकामदुहे नमः ।
ॐ उत्तमाय नमः ।
ॐ गणपाय नमः ।
ॐ केशवाय नमः ।
ॐ भ्रात्रे नमः ।
ॐ पित्रे नमः ।
ॐ मात्रे नमः । 540
ॐ मारुतये नमः ।
ॐ सहस्रमूर्ध्ने नमः ।
ॐ सहस्रास्याय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ कामजिते नमः ।
ॐ कामदहनाय नमः ।
ॐ कामाय नमः ।
ॐ काम्यफलप्रदाय नमः ।
ॐ मुद्रोपहारिणे नमः ।
ॐ रक्षोघ्नाय नमः ।
ॐ क्षितिभारहराय नमः ।
ॐ बलाय नमः ।
ॐ नखदंष्ट्रायुधाय नमः ।
ॐ विष्णुभक्ताय नमः ।
ॐ भक्ताभयप्रदाय नमः ।
ॐ दर्पघ्ने नमः ।
ॐ दर्पदाय नमः ।
ॐ दंष्ट्राशतमूर्तये नमः ।
ॐ अमूर्तिमते नमः । 560
ॐ महानिधये नमः ।
ॐ महाभागाय नमः ।
ॐ महाभर्गाय नमः ।
ॐ महर्धिदाय नमः ।
ॐ महाकाराय नमः ।
ॐ महायोगिने नमः ।
ॐ महातेजाय नमः ।
ॐ महाद्युतये नमः ।
ॐ महाकर्मणे नमः ।
ॐ महानादाय नमः ।
ॐ महामंत्राय नमः ।
ॐ महामतये नमः ।
ॐ महाशमाय नमः ।
ॐ महोदाराय नमः ।
ॐ महादेवात्मकाय नमः ।
ॐ विभवे नमः ।
ॐ रुद्रकर्मणे नमः ।
ॐ क्रूरकर्मणे नमः ।
ॐ रत्ननाभाय नमः ।
ॐ कृतागमाय नमः । 580
ॐ अंभोधिलंघनाय नमः ।
ॐ सिद्धाय नमः ।
ॐ सत्यधर्मणे नमः ।
ॐ प्रमोदनाय नमः ।
ॐ जितामित्राय नमः ।
ॐ जयाय नमः ।
ॐ सोमाय नमः ।
ॐ विजयाय नमः ।
ॐ वायुवाहनाय नमः ।
ॐ जीवाय नमः ।
ॐ धात्रे नमः ।
ॐ सहस्रांशवे नमः ।
ॐ मुकुंदाय नमः ।
ॐ भूरिदक्षिणाय नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ संकल्पाय नमः ।
ॐ सिद्धिहेतुकाय नमः ।
ॐ सप्तपातालचरणाय नमः । 600
ॐ सप्तर्षिगणवंदिताय नमः ।
ॐ सप्ताब्धिलंघनाय नमः ।
ॐ वीराय नमः ।
ॐ सप्तद्वीपोरुमंडलाय नमः ।
ॐ सप्तांगराज्यसुखदाय नमः ।
ॐ सप्तमातृनिषेविताय नमः ।
ॐ सप्तलोकैकमकुटाय नमः ।
ॐ सप्तहोत्राय नमः ।
ॐ स्वराश्रयाय नमः ।
ॐ सप्तसामोपगीताय नमः ।
ॐ सप्तपातालसंश्रयाय नमः ।
ॐ सप्तच्छंदोनिधये नमः ।
ॐ सप्तच्छंदाय नमः ।
ॐ सप्तजनाश्रयाय नमः ।
ॐ मेधादाय नमः ।
ॐ कीर्तिदाय नमः ।
ॐ शोकहारिणे नमः ।
ॐ दौर्भाग्यनाशनाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ गर्भदोषघ्ने नमः । 620
ॐ पुत्रपौत्रदाय नमः ।
ॐ प्रतिवादिमुखस्तंभाय नमः ।
ॐ रुष्टचित्तप्रसादनाय नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ दुःखघ्ने नमः ।
ॐ बंधमोक्षदाय नमः ।
ॐ नवद्वारपुराधाराय नमः ।
ॐ नवद्वारनिकेतनाय नमः ।
ॐ नरनारायणस्तुत्याय नमः ।
ॐ नवनाथमहेश्वराय नमः ।
ॐ मेखलिने नमः ।
ॐ कवचिने नमः ।
ॐ खड्गिने नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ जिष्णुसारथये नमः ।
ॐ बहुयोजनविस्तीर्णपुच्छाय नमः ।
ॐ पुच्छहतासुराय नमः ।
ॐ दुष्टहंत्रे नमः ।
ॐ नियमित्रे नमः ।
ॐ पिशाचग्रहशातनाय नमः । 640
ॐ बालग्रहविनाशिने नमः ।
ॐ धर्मनेत्रे नमः ।
ॐ कृपाकराय नमः ।
ॐ उग्रकृत्याय नमः ।
ॐ उग्रवेगाय नमः ।
ॐ उग्रनेत्राय नमः ।
ॐ शतक्रतवे नमः ।
ॐ शतमन्युस्तुताय नमः ।
ॐ स्तुत्याय नमः ।
ॐ स्तुतये नमः ।
ॐ स्तोत्रे नमः ।
ॐ महाबलाय नमः ।
ॐ समग्रगुणशालिने नमः ।
ॐ व्यग्राय नमः ।
ॐ रक्षोविनाशनाय नमः ।
ॐ रक्षोग्निदावाय नमः ।
ॐ ब्रह्मेशाय नमः ।
ॐ श्रीधराय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ मेघनादाय नमः । 660
ॐ मेघरूपाय नमः ।
ॐ मेघवृष्टिनिवारणाय नमः ।
ॐ मेघजीवनहेतवे नमः ।
ॐ मेघश्यामाय नमः ।
ॐ परात्मकाय नमः ।
ॐ समीरतनयाय नमः ।
ॐ धात्रे नमः ।
ॐ तत्त्वविद्याविशारदाय नमः ।
ॐ अमोघाय नमः ।
ॐ अमोघवृष्टये नमः ।
ॐ अभीष्टदाय नमः ।
ॐ अनिष्टनाशनाय नमः ।
ॐ अर्थाय नमः ।
ॐ अनर्थापहारिणे नमः ।
ॐ समर्थाय नमः ।
ॐ रामसेवकाय नमः ।
ॐ अर्थिने नमः ।
ॐ धन्याय नमः ।
ॐ असुरारातये नमः ।
ॐ पुंडरीकाक्षाय नमः । 680
ॐ आत्मभुवे नमः ।
ॐ संकर्षणाय नमः ।
ॐ विशुद्धात्मने नमः ।
ॐ विद्याराशये नमः ।
ॐ सुरेश्वराय नमः ।
ॐ अचलोद्धारकाय नमः ।
ॐ नित्याय नमः ।
ॐ सेतुकृते नमः ।
ॐ रामसारथये नमः ।
ॐ आनंदाय नमः ।
ॐ परमानंदाय नमः ।
ॐ मत्स्याय नमः ।
ॐ कूर्माय नमः ।
ॐ निधये नमः ।
ॐ शयाय नमः ।
ॐ वराहाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ वामनाय नमः ।
ॐ जमदग्निजाय नमः ।
ॐ रामाय नमः । 700
ॐ कृष्णाय नमः ।
ॐ शिवाय नमः ।
ॐ बुद्धाय नमः ।
ॐ कल्किने नमः ।
ॐ रामाश्रयाय नमः ।
ॐ हरये नमः ।
ॐ नंदिने नमः ।
ॐ भृंगिणे नमः ।
ॐ चंडिने नमः ।
ॐ गणेशाय नमः ।
ॐ गणसेविताय नमः ।
ॐ कर्माध्यक्षाय नमः ।
ॐ सुरारामाय नमः ।
ॐ विश्रामाय नमः ।
ॐ जगतीपतये नमः ।
ॐ जगन्नाथाय नमः ।
ॐ कपीशाय नमः ।
ॐ सर्वावासाय नमः ।
ॐ सदाश्रयाय नमः ।
ॐ सुग्रीवादिस्तुताय नमः । 720
ॐ दांताय नमः ।
ॐ सर्वकर्मणे नमः ।
ॐ प्लवंगमाय नमः ।
ॐ नखदारितरक्षसे नमः ।
ॐ नखयुद्धविशारदाय नमः ।
ॐ कुशलाय नमः ।
ॐ सुधनाय नमः ।
ॐ शेषाय नमः ।
ॐ वासुकये नमः ।
ॐ तक्षकाय नमः ।
ॐ स्वर्णवर्णाय नमः ।
ॐ बलाढ्याय नमः ।
ॐ पुरुजेत्रे नमः ।
ॐ अघनाशनाय नमः ।
ॐ कैवल्यदीपाय नमः ।
ॐ कैवल्याय नमः ।
ॐ गरुडाय नमः ।
ॐ पन्नगाय नमः ।
ॐ गुरवे नमः ।
ॐ क्लीक्लीरावहतारातिगर्वाय नमः । 740
ॐ पर्वतभेदनाय नमः ।
ॐ वज्रांगाय नमः ।
ॐ वज्रवक्त्राय नमः ।
ॐ भक्तवज्रनिवारकाय नमः ।
ॐ नखायुधाय नमः ।
ॐ मणिग्रीवाय नमः ।
ॐ ज्वालामालिने नमः ।
ॐ भास्कराय नमः ।
ॐ प्रौढप्रतापाय नमः ।
ॐ तपनाय नमः ।
ॐ भक्ततापनिवारकाय नमः ।
ॐ शरणाय नमः ।
ॐ जीवनाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ नानाचेष्टाय नमः ।
ॐ चंचलाय नमः ।
ॐ स्वस्थाय नमः ।
ॐ अस्वास्थ्यघ्ने नमः ।
ॐ दुःखशातनाय नमः ।
ॐ पवनात्मजाय नमः । 760
ॐ पवनाय नमः ।
ॐ पावनाय नमः ।
ॐ कांताय नमः ।
ॐ भक्तांगाय नमः ।
ॐ सहनाय नमः ।
ॐ बलाय नमः ।
ॐ मेघनादरिपवे नमः ।
ॐ मेघनादसंहृतराक्षसाय नमः ।
ॐ क्षराय नमः ।
ॐ अक्षराय नमः ।
ॐ विनीतात्मने नमः ।
ॐ वानरेशाय नमः ।
ॐ सतांगतये नमः ।
ॐ श्रीकंठाय नमः ।
ॐ शितिकंठाय नमः ।
ॐ सहायाय नमः ।
ॐ सहनायकाय नमः ।
ॐ अस्थूलाय नमः ।
ॐ अनणवे नमः ।
ॐ भर्गाय नमः । 780
ॐ देवसंसृतिनाशनाय नमः ।
ॐ अध्यात्मविद्यासाराय नमः ।
ॐ अध्यात्मकुशलाय नमः ।
ॐ सुधिये नमः ।
ॐ अकल्मषाय नमः ।
ॐ सत्यहेतवे नमः ।
ॐ सत्यदाय नमः ।
ॐ सत्यगोचराय नमः ।
ॐ सत्यगर्भाय नमः ।
ॐ सत्यरूपाय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यपराक्रमाय नमः ।
ॐ अंजनाप्राणलिंगाय नमः ।
ॐ वायुवंशोद्भवाय नमः ।
ॐ श्रुतये नमः ।
ॐ भद्ररूपाय नमः ।
ॐ रुद्ररूपाय नमः ।
ॐ सुरूपाय नमः ।
ॐ चित्ररूपधृशे नमः ।
ॐ मैनाकवंदिताय नमः । 800
ॐ सूक्ष्मदर्शनाय नमः ।
ॐ विजयाय नमः ।
ॐ जयाय नमः ।
ॐ क्रांतदिङ्मंडलाय नमः ।
ॐ रुद्राय नमः ।
ॐ प्रकटीकृतविक्रमाय नमः ।
ॐ कंबुकंठाय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ ह्रस्वनासाय नमः ।
ॐ वृकोदराय नमः ।
ॐ लंबोष्ठाय नमः ।
ॐ कुंडलिने नमः ।
ॐ चित्रमालिने नमः ।
ॐ योगविदां वराय नमः ।
ॐ विपश्चिते नमः ।
ॐ कवये नमः ।
ॐ आनंदविग्रहाय नमः ।
ॐ अनल्पनाशनाय नमः ।
ॐ फाल्गुनीसूनवे नमः ।
ॐ अव्यग्राय नमः । 820
ॐ योगात्मने नमः ।
ॐ योगतत्पराय नमः ।
ॐ योगविदे नमः ।
ॐ योगकर्त्रे नमः ।
ॐ योगयोनये नमः ।
ॐ दिगंबराय नमः ।
ॐ अकारादिक्षकारांतवर्णनिर्मितविग्रहाय नमः ।
ॐ उलूखलमुखाय नमः ।
ॐ सिद्धसंस्तुताय नमः ।
ॐ परमेश्वराय नमः ।
ॐ श्लिष्टजंघाय नमः ।
ॐ श्लिष्टजानवे नमः ।
ॐ श्लिष्टपाणये नमः ।
ॐ शिखाधराय नमः ।
ॐ सुशर्मणे नमः ।
ॐ अमितधर्मणे नमः ।
ॐ नारायणपरायणाय नमः ।
ॐ जिष्णवे नमः ।
ॐ भविष्णवे नमः ।
ॐ रोचिष्णवे नमः । 840
ॐ ग्रसिष्णवे नमः ।
ॐ स्थाणवे नमः ।
ॐ हरये नमः ।
ॐ रुद्रानुकृते नमः ।
ॐ वृक्षकंपनाय नमः ।
ॐ भूमिकंपनाय नमः ।
ॐ गुणप्रवाहाय नमः ।
ॐ सूत्रात्मने नमः ।
ॐ वीतरागाय नमः ।
ॐ स्तुतिप्रियाय नमः ।
ॐ नागकन्याभयध्वंसिने नमः ।
ॐ कृतपूर्णाय नमः ।
ॐ कपालभृते नमः ।
ॐ अनुकूलाय नमः ।
ॐ अक्षयाय नमः ।
ॐ अपायाय नमः ।
ॐ अनपायाय नमः ।
ॐ वेदपारगाय नमः ।
ॐ अक्षराय नमः ।
ॐ पुरुषाय नमः । 860
ॐ लोकनाथाय नमः ।
ॐ त्र्यक्षाय नमः ।
ॐ प्रभवे नमः ।
ॐ दृढाय नमः ।
ॐ अष्टांगयोगफलभुवे नमः ।
ॐ सत्यसंधाय नमः ।
ॐ पुरुष्टुताय नमः ।
ॐ श्मशानस्थाननिलयाय नमः ।
ॐ प्रेतविद्रावणक्षमाय नमः ।
ॐ पंचाक्षरपराय नमः ।
ॐ पंचमातृकाय नमः ।
ॐ रंजनाय नमः ।
ॐ ध्वजाय नमः ।
ॐ योगिनीवृंदवंद्यश्रिये नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ अनंतविक्रमाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ इंद्रियवपुषे नमः ।
ॐ धृतदंडाय नमः ।
ॐ दशात्मकाय नमः । 880
ॐ अप्रपंचाय नमः ।
ॐ सदाचाराय नमः ।
ॐ शूरसेनाय नमः ।
ॐ विदारकाय नमः ।
ॐ बुद्धाय नमः ।
ॐ प्रमोदाय नमः ।
ॐ आनंदाय नमः ।
ॐ सप्तजिह्वपतये नमः ।
ॐ धराय नमः ।
ॐ नवद्वारपुराधाराय नमः ।
ॐ प्रत्यग्राय नमः ।
ॐ सामगायनाय नमः ।
ॐ षट्चक्रधाम्ने नमः ।
ॐ स्वर्लोकभयहृते नमः ।
ॐ मानदाय नमः ।
ॐ मदाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ शक्तये नमः ।
ॐ अनंताय नमः ।
ॐ अनंतमंगलाय नमः । 900
ॐ अष्टमूर्तिधराय नमः ।
ॐ नेत्रे नमः ।
ॐ विरूपाय नमः ।
ॐ स्वरसुंदराय नमः ।
ॐ धूमकेतवे नमः ।
ॐ महाकेतवे नमः ।
ॐ सत्यकेतवे नमः ।
ॐ महारथाय नमः ।
ॐ नंदिने नमः ।
ॐ प्रियाय नमः ।
ॐ स्वतंत्राय नमः ।
ॐ मेखलिने नमः ।
ॐ डमरुप्रियाय नमः ।
ॐ लोहितांगाय नमः ।
ॐ समिधे नमः ।
ॐ वह्नये नमः ।
ॐ षडृतवे नमः ।
ॐ शर्वाय नमः ।
ॐ ईश्वराय नमः ।
ॐ फलभुजे नमः । 920
ॐ फलहस्ताय नमः ।
ॐ सर्वकर्मफलप्रदाय नमः ।
ॐ धर्माध्यक्षाय नमः ।
ॐ धर्मफलाय नमः ।
ॐ धर्माय नमः ।
ॐ धर्मप्रदाय नमः ।
ॐ अर्थदाय नमः ।
ॐ पंचविंशतितत्त्वज्ञाय नमः ।
ॐ तारकाय नमः ।
ॐ ब्रह्मतत्पराय नमः ।
ॐ त्रिमार्गवसतये नमः ।
ॐ भीमाय नमः ।
ॐ सर्वदुष्टनिबर्हणाय नमः ।
ॐ ऊर्जःस्वामिने नमः ।
ॐ जलस्वामिने नमः ।
ॐ शूलिने नमः ।
ॐ मालिने नमः ।
ॐ निशाकराय नमः ।
ॐ रक्तांबरधराय नमः ।
ॐ रक्ताय नमः । 940
ॐ रक्तमाल्यविभूषणाय नमः ।
ॐ वनमालिने नमः ।
ॐ शुभांगाय नमः ।
ॐ श्वेताय नमः ।
ॐ श्वेतांबराय नमः ।
ॐ युवाय नमः ।
ॐ जयाय नमः ।
ॐ अजेयपरीवाराय नमः ।
ॐ सहस्रवदनाय नमः ।
ॐ कवये नमः ।
ॐ शाकिनीडाकिनीयक्षरक्षोभूतप्रभंजनाय नमः ।
ॐ सद्योजाताय नमः ।
ॐ कामगतये नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ यशस्कराय नमः ।
ॐ शंभुतेजसे नमः ।
ॐ सार्वभौमाय नमः ।
ॐ विष्णुभक्ताय नमः ।
ॐ प्लवंगमाय नमः ।
ॐ चतुर्णवतिमंत्रज्ञाय नमः । 960
ॐ पौलस्त्यबलदर्पघ्ने नमः ।
ॐ सर्वलक्ष्मीप्रदाय नमः ।
ॐ श्रीमते नमः ।
ॐ अंगदप्रियवर्धनाय नमः ।
ॐ स्मृतिबीजाय नमः ।
ॐ सुरेशानाय नमः ।
ॐ संसारभयनाशनाय नमः ।
ॐ उत्तमाय नमः ।
ॐ श्रीपरीवाराय नमः ।
ॐ श्रीभुवे नमः ।
ॐ उग्राय नमः ।
ॐ कामदुहे नमः ।
ॐ सदागतये नमः ।
ॐ मातरिश्वने नमः ।
ॐ रामपादाब्जषट्पदाय नमः ।
ॐ नीलप्रियाय नमः ।
ॐ नीलवर्णाय नमः ।
ॐ नीलवर्णप्रियाय नमः ।
ॐ सुहृदे नमः ।
ॐ रामदूताय नमः । 980
ॐ लोकबंधवे नमः ।
ॐ अंतरात्मने नमः ।
ॐ मनोरमाय नमः ।
ॐ श्रीरामध्यानकृते नमः ।
ॐ वीराय नमः ।
ॐ सदा किंपुरुषस्तुताय नमः ।
ॐ रामकार्यांतरंगाय नमः ।
ॐ शुद्धये नमः ।
ॐ गत्यै नमः ।
ॐ अनामयाय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ परानंदाय नमः ।
ॐ परेशप्रियसारथये नमः ।
ॐ लोकस्वामिने नमः ।
ॐ मुक्तिदात्रे नमः ।
ॐ सर्वकारणकारणाय नमः ।
ॐ महाबलाय नमः ।
ॐ महावीराय नमः ।
ॐ पारावारगतये नमः ।
ॐ गुरवे नमः । 1000
ॐ तारकाय नमः ।
ॐ भगवते नमः ।
ॐ त्रात्रे नमः ।
ॐ स्वस्तिदात्रे नमः ।
ॐ सुमंगलाय नमः ।
ॐ समस्तलोकसाक्षिणे नमः ।
ॐ समस्तसुरवंदिताय नमः ।
ॐ सीतासमेत श्रीरामपादसेवा धुरंधराय नमः । 1008
इति श्री हनुमत्सहस्रनामावलिः ।