View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

तृचा कल्प सूर्य नमस्कार क्रमः

आचम्य । प्राणानायम्य । देशकालौ संकीर्त्य । गणपति पूजां कृत्वा ।

संकल्पः
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थं भविष्योत्तरपुराणोक्त तृचकल्पविधिना एकावृत्त्या नमस्काराख्यं कर्म करिष्ये ॥

ध्यानम्
ध्येयः सदा सवितृमंडलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यं प्रणामोऽष्टांग उच्यते ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओम् । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 1 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रीं आ॒रोह॒न्नुत्त॑रां॒ दिवं᳚ ह्रीं ओम् । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 2 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हृ॒द्रो॒गं मम॑ सूर्य ह्रूं ओम् । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 3 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रैं हरि॒माणं᳚ च नाशय ह्रैं ओम् । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 4 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओम् । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 5 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओम् । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 6 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओम् । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 7 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रीं हरि॒माणं॒ निद॑ध्मसि ह्रीं ओम् । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 8 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओम् । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 9 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रैं-विँश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओम् । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 10 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रौं द्वि॒षंतं॒ मह्यं᳚ रं॒धय॒न्न्॑ ह्रौं ओम् । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 11 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रः मो अ॒हं द्वि॑ष॒ते र॑धं ह्रः ओम् । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 12 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवं᳚ ह्रां ह्रीं ओम् । मित्ररविभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 13 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हैं हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ह्रूं ह्रैं ओम् । सूर्यभानुभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 14 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओम् । खगपूषभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 15 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ह्रां ह्रीं ओम् । हिरण्यगर्भमरीचिभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 16 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओम् । आदित्यसवितृभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 17 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः द्वि॒षंतं॒ मह्यं᳚ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धं ह्रौं ह्रः ओम् । अर्कभास्कराभ्यां नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 18 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् । हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओम् । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 19 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओम् । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 20 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षंतं॒ मह्यं᳚ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओम् । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 21 ॥

ॐ भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षंतं॒ मह्यं᳚ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओम् । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नमः साष्टांग नमस्कारान् समर्पयामि ॥ 22, 23, 24 ॥ (इति त्रिः)

अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मकः श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवंतु ॥




Browse Related Categories: