View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

बुध अष्टोत्तर शत नाम स्तोत्रम्

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ 1 ॥

सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ 2 ॥

वेदविद्वेदतत्त्वज्ञो वेदांतज्ञानभास्वरः ।
विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ 3 ॥

विश्वानुकूलसंचारो विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ 4 ॥

त्रिवर्गफलदोऽनंतः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बंधविमोचकः ॥ 5 ॥

वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसन्नवदनो वंद्यो वरेण्यो वाग्विलक्षणः ॥ 6 ॥

सत्यवान् सत्यसंकल्पः सत्यबंधुः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ 7 ॥

वाणिज्यनिपुणो वश्यो वातांगो वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ 8 ॥

अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ 9 ॥

चारुशीलः स्वप्रकाशः चपलश्च जितेंद्रियः ।
उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ 10 ॥

सौम्यवत्सरसंजातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ 11 ॥

पीतांबरो पीतवपुः पीतच्छत्रध्वजांकितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ 12 ॥

आत्रेयगोत्रजोऽत्यंतविनयो विश्वपावनः ।
चांपेयपुष्पसंकाशः चारणः चारुभूषणः ॥ 13 ॥

वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बंधुप्रियो बंधमुक्तो बाणमंडलसंश्रितः ॥ 14 ॥

अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः ।
प्रशांतः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ 15 ॥

मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ 16 ॥

बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् ।
संपूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ 17 ॥

इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: