View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री सूर्य पंजर स्तोत्रम्

ॐ उदयगिरिमुपेतं भास्करं पद्महस्तं
सकलभुवननेत्रं रत्नरज्जूपमेयम् ।
तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां
सुरवरमभिवंद्यं सुंदरं विश्वदीपम् ॥ 1 ॥

ॐ शिखायां भास्कराय नमः ।
ललाटे सूर्याय नमः ।
भ्रूमध्ये भानवे नमः ।
कर्णयोः दिवाकराय नमः ।
नासिकायां भानवे नमः ।
नेत्रयोः सवित्रे नमः ।
मुखे भास्कराय नमः ।
ओष्ठयोः पर्जन्याय नमः ।
पादयोः प्रभाकराय नमः ॥ 2 ॥

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ॐ हंसां हंसीं हंसूं हंसैं हंसौं हंसः ॥ 3 ॥

ॐ सत्यतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ स्थितिरूपककारणाय पूर्वादिग्भागे मां रक्षतु ॥ 4 ॥

ॐ ब्रह्मतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ तारकब्रह्मरूपाय परयंत्र-परतंत्र-परमंत्र-सर्वोपद्रवनाशनार्थं दक्षिणदिग्भागे मां रक्षतु ॥ 5 ॥

ॐ विष्णुतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ प्रचंडमार्तांड उग्रतेजोरूपिणे मुकुरवर्णाय तेजोवर्णाय मम सर्वराजस्त्रीपुरुष-वशीकरणार्थं पश्चिमदिग्भागे मां रक्षतु ॥ 6 ॥

ॐ रुद्रतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ भवाय रुद्ररूपिणे उत्तरदिग्भागे सर्वमृत्योपशमनार्थं मां रक्षतु ॥ 7 ॥

ॐ अग्नितेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ तिमिरतेजसे सर्वरोगनिवारणाय ऊर्ध्वदिग्भागे मां रक्षतु ॥ 8 ॥

ॐ सर्वतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा ।
ॐ नमस्कारप्रियाय श्रीसूर्यनारायणाय अधोदिग्भागे सर्वाभीष्टसिद्ध्यर्थं मां रक्षतु ॥ 9 ॥

मार्तांडाय नमः भानवे नमः
हंसाय नमः सूर्याय नमः
दिवाकराय नमः तपनाय नमः
भास्कराय नमः मां रक्षतु ॥ 10 ॥

मित्र-रवि-सूर्य-भानु-खगपूष-हिरण्यगर्भ-
मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः शिरस्थाने मां रक्षतु ॥ 11 ॥

सूर्यादि नवग्रहेभ्यो नमः ललाटस्थाने मां रक्षतु ॥ 12 ॥

धराय नमः धृवाय नमः
सोमाय नमः अथर्वाय नमः
अनिलाय नमः अनलाय नमः
प्रत्यूषाय नमः प्रतापाय नमः
मूर्ध्निस्थाने मां रक्षतु ॥ 13 ॥

वीरभद्राय नमः गिरीशाय नमः
शंभवे नमः अजैकपदे नमः
अहिर्बुध्ने नमः पिनाकिने नमः
भुवनाधीश्वराय नमः दिशांतपतये नमः
पशुपतये नमः स्थाणवे नमः
भवाय नमः ललाटस्थाने मां रक्षतु ॥ 14 ॥

धात्रे नमः अंशुमते नमः
पूष्णे नमः पर्जन्याय नमः
विष्णवे नमः नेत्रस्थाने मां रक्षतु ॥ 15 ॥

अरुणाय नमः सूर्याय नमः
इंद्राय नमः रवये नमः
सुवर्णरेतसे नमः यमाय नमः
दिवाकराय नमः कर्णस्थाने मां रक्षतु ॥ 16 ॥

असितांगभैरवाय नमः रुरुभैरवाय नमः
चंडभैरवाय नमः क्रोधभैरवाय नमः
उन्मत्तभैरवाय नमः भीषणभैरवाय नमः
कालभैरवाय नमः संहारभैरवाय नमः
मुखस्थाने मां रक्षतु ॥ 17 ॥

ब्राह्म्यै नमः महेश्वर्यै नमः
कौमार्यै नमः वैष्णव्यै नमः
वराह्यै नमः इंद्राण्यै नमः
चामुंडायै नमः कंठस्थाने मां रक्षतु ॥ 18 ॥

इंद्राय नमः अग्नये नमः
यमाय नमः निर्‍ऋतये नमः
वरुणाय नमः वायवे नमः
कुबेराय नमः ईशानाय नमः
बाहुस्थाने मां रक्षतु ॥ 19 ॥

मेषादिद्वादशराशिभ्यो नमः हृदयस्थाने मां रक्षतु ॥ 20 ॥

वज्रायुधाय नमः शक्त्यायुधाय नमः
दंडायुधाय नमः खड्गायुधाय नमः
पाशायुधाय नमः अंकुशायुधाय नमः
गदायुधाय नमः त्रिशूलायुधाय नमः
पद्मायुधाय नमः चक्रायुधाय नमः
कटिस्थाने मां रक्षतु ॥ 21 ॥

मित्राय नमः दक्षिणहस्ते मां रक्षतु ।
रवये नमः वामहस्ते मां रक्षतु ।
सूर्याय नमः हृदये मां रक्षतु ।
भानवे नमः मूर्ध्निस्थाने मां रक्षतु ।
खगाय नमः दक्षिणपादे मां रक्षतु ।
पूष्णे नमः वामपादे मां रक्षतु ।
हिरण्यगर्भाय नमः नाभिस्थाने मां रक्षतु ।
मरीचये नमः कंठस्थाने मां रक्षतु ।
आदित्याय नमः दक्षिणचक्षूषि मां रक्षतु ।
सवित्रे नमः वामचक्षुषि मां रक्षतु ।
भास्कराय नमः हस्ते मां रक्षतु ।
अर्काय नमः कवचे मां रक्षतु ॥ 22

ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ 23 ॥

इति श्री सूर्य पंजर स्तोत्रम् ॥




Browse Related Categories: