View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री मॆधा दक्षिणामुर्थि मंत्रवर्णपद स्तुतिः

ओमित्येकाक्षरं ब्रह्म व्याहरंति त्रयश्शिखाः ।
तस्मैतारात्मने मेधादक्षिणामूर्तये नमः ॥ 1 ॥

नत्वा यं मुनयस्सर्वे परंयांति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 2 ॥

मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 3 ॥

भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 4 ॥

गगनाकारवद्भांतमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 5 ॥

वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 6 ॥

तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 7 ॥

दक्षत्रिपुरसंहारे यः कालविषभंजने ।
दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 8 ॥

क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 9 ॥

णाकारवाच्योयस्सुप्तं संदीपयति मे मनः ।
णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 10 ॥

मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 11 ॥

तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ 12 ॥

येयं विदित्वा ब्रह्माद्या ऋषयो यांति निर्वृतिम् ।
येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 13 ॥

महतां देवमित्याहुर्निगमागमयोश्शिवः ।
मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 14 ॥

सर्वस्यजगतो ह्यंतर्बहिर्यो व्याप्यसंस्थितः ।
ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 15 ॥

त्वमेव जगतस्साक्षी सृष्टिस्थित्यंतकारणम् ।
मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 16 ॥

धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धांकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 17 ॥

प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 18 ॥

ज्ञानिनोयमुपास्यंति तत्त्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 19 ॥

प्रज्ञा संजायते यस्य ध्याननामार्चनादिभिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 20 ॥

यस्य स्मरणमात्रेण नरोमुक्तस्सबंधनात् । [ सरोमुक्त ]
यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 21 ॥

छवेर्यन्नेंद्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 22 ॥

स्वांतेविदां जडानां यो दूरेतिष्ठति चिन्मयः ।
स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 23 ॥

हारप्रायफणींद्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 24 ॥

इति श्री मेधादक्षिणामूर्ति मंत्रवर्णपद स्तुतिः ॥




Browse Related Categories: