View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

तत्त्वबोध (आदि शंकराचार्य)

ध्यानं
वासुदेवेंद्रयोगींद्रं नत्वा ज्ञानप्रदं गुरुम् ।
मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥

साधनचतुष्टयसंपन्नाधिकारिणां मोक्षसाधनभूतं
तत्त्वविवेकप्रकारं वक्ष्यामः ।

साधनचतुष्टयम्
साधनचतुष्टयं किम् ?
नित्यानित्यवस्तुविवेकः ।
इहामुत्रार्थफलभोगविरागः ।
शमादिषट्कसंपत्तिः ।
मुमुक्षुत्वं चेति ।

नित्यानित्यवस्तुविवेकः
नित्यानित्यवस्तुविवेकः कः ?
नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् ।
अयमेव नित्यानित्यवस्तुविवेकः ।

विरागः
विरागः कः ?
इहस्वर्गभोगेषु इच्छाराहित्यम् ।

शमादिसाधनसंपत्तिः
शमादिसाधनसंपत्तिः का ?
शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति ।शमः कः ?
मनोनिग्रहः ।
दमः कः ?
चक्षुरादिबाह्येंद्रियनिग्रहः ।
उपरमः कः ?
स्वधर्मानुष्ठानमेव ।
तितिक्षा का ?
शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
श्रद्धा कीदृशी ?
गुरुवेदांतवाक्यादिषु विश्वासः श्रद्धा ।
समाधानं किम् ?
चित्तैकाग्रता ।

मुमुक्षुत्वं
मुमुक्षुत्वं किम् ?
मोक्षो मे भूयाद् इति इच्छा ।
एतत् साधनचतुष्टयम् ।
ततस्तत्त्वविवेकस्याधिकारिणो भवंति ।

तत्त्वविवेकः
तत्त्वविवेकः कः ?
आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।आत्मा कः ?
स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पंचकोशातीतः सन्
अवस्थात्रयसाक्षी सच्चिदानंदस्वरूपः सन्
यस्तिष्ठति स आत्मा ।

शरीरत्रयं (स्थूलशरीरम्)
स्थूलशरीरं किम् ?
पंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगायतनं शरीरम्
अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति
षड्विकारवदेतत्स्थूलशरीरम् ।

शरीरत्रयं (सूक्ष्मशरीरम्)
सूक्ष्मशरीरं किम् ?
अपंचीकृतपंचमहाभूतैः कृतं सत्कर्मजन्यं
सुखदुःखादिभोगसाधनं
पंचज्ञानेंद्रियाणि पंचकर्मेंद्रियाणि पंचप्राणादयः
मनश्चैकं बुद्धिश्चैका
एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।

ज्ञानेंद्रियाणि
श्रोत्रं त्वक् चक्षुः रसना घ्राणं इति पंच ज्ञानेंद्रियाणि ।
श्रोत्रस्य दिग्देवता ।
त्वचो वायुः ।
चक्षुषः सूर्यः ।
रसनाया वरुणः ।
घ्राणस्य अश्विनौ ।
इति ज्ञानेंद्रियदेवताः ।
श्रोत्रस्य विषयः शब्दग्रहणम् ।
त्वचो विषयः स्पर्शग्रहणम् ।
चक्षुषो विषयः रूपग्रहणम् ।
रसनाया विषयः रसग्रहणम् ।
घ्राणस्य विषयः गंधग्रहणं इति ।

पंचकर्मेंद्रियाणि
वाक्पाणिपादपायूपस्थानीति पंचकर्मेंद्रियाणि ।
वाचो देवता वह्निः ।
हस्तयोरिंद्रः ।
पादयोर्विष्णुः ।
पायोर्मृत्युः ।
उपस्थस्य प्रजापतिः ।
इति कर्मेंद्रियदेवताः ।
वाचो विषयः भाषणम् ।
पाण्योर्विषयः वस्तुग्रहणम् ।
पादयोर्विषयः गमनम् ।
पायोर्विषयः मलत्यागः ।
उपस्थस्य विषयः आनंद इति ।

कारणशरीरम्
कारणशरीरं किम् ?
अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं
सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।

अवस्थात्रयम्
अवस्थात्रयं किम् ?
जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।

जाग्रदवस्था
जाग्रदवस्था का ?
श्रोत्रादिज्ञानेंद्रियैः शब्दादिविषयैश्च ज्ञायते इति यत्
सा जाग्रदावस्था ।
स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते ।

स्वप्नावस्था
स्वप्नावस्था केति चेत् ?
जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम्
तज्जनितवासनया निद्रासमये यः प्रपंचः प्रतीयते सा
स्वप्नावस्था ।
सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते ।

सुषुप्त्यवस्था
अतः सुषुप्त्यवस्था का ?
अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति
सुषुप्त्यवस्था ।
कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते ।

पंच कोशाः
पंच कोशाः के ?
अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनंदमयश्चेति ।

अन्नमयकोशः
अन्नमयः कः ?
अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां
यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।

प्राणमयकोशः
प्राणमयः कः ?
प्राणाद्याः पंचवायवः वागादींद्रियपंचकं प्राणमयः कोशः ।

मनोमयकोशः
मनोमयः कोशः कः ?
मनश्च ज्ञानेंद्रियपंचकं मिलित्वा यो भवति स मनोमयः कोशः ।

विज्ञानमयकोशः
विज्ञानमयः कः ?
बुद्धिज्ञानेंद्रियपंचकं मिलित्वा यो भवति स विज्ञानमयः कोशः

आनंदमयकोशः
आनंदमयः कः ?
एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं
प्रियादिवृत्तिसहितं सत् आनंदमयः कोशः ।
एतत्कोशपंचकम् ।

पंचकोशातीत
मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च
मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते
तद्यथा मदीयत्वेन ज्ञातं कटककुंडल गृहादिकं
स्वस्माद्भिन्नं तथा पंचकोशादिकं स्वस्माद्भिन्नम्
मदीयत्वेन ज्ञातमात्मा न भवति ॥

आत्मन्
आत्मा तर्हि कः ?
सच्चिदानंदस्वरूपः ।
सत्किम् ?
कालत्रयेऽपि तिष्ठतीति सत् ।
चित्किम् ?
ज्ञानस्वरूपः ।
आनंदः कः ?
सुखस्वरूपः ।
एवं सच्चिदानंदस्वरूपं स्वात्मानं विजानीयात् ।

जगत्
अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः ।

माया
ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति ।

पंचभूताः
ततः आकाशः संभूतः ।
आकाशाद् वायुः ।
वायोस्तेजः ।
तेजस आपः ।
अभ्धयः पृथिवी ।

सत्त्वगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य सात्विकांशात् श्रोत्रेंद्रियं संभूतम् ।
वायोः सात्विकांशात् त्वगिंद्रियं संभूतम् ।
अग्नेः सात्विकांशात् चक्षुरिंद्रियं संभूतम् ।
जलस्य सात्विकांशात् रसनेंद्रियं संभूतम् ।
पृथिव्याः सात्विकांशात् घ्राणेंद्रियं संभूतम् ।

अंतःकरण
एतेषां पंचतत्त्वानां समष्टिसात्विकांशात्
मनोबुद्ध्यहंकार चित्तांतःकरणानि संभूतानि ।
संकल्पविकल्पात्मकं मनः ।
निश्चयात्मिका बुद्धिः ।
अहंकर्ता अहंकारः ।
चिंतनकर्तृ चित्तम् ।
मनसो देवता चंद्रमाः ।
बुद्धे ब्रह्मा ।
अहंकारस्य रुद्रः ।
चित्तस्य वासुदेवः ।

रजोगुणः
एतेषां पंचतत्त्वानां मध्ये
आकाशस्य राजसांशात् वागिंद्रियं संभूतम् ।
वायोः राजसांशात् पाणींद्रियं संभूतम् ।
वन्हेः राजसांशात् पादेंद्रियं संभूतम् ।
जलस्य राजसांशात् उपस्थेंद्रियं संभूतम् ।
पृथिव्या राजसांशात् गुदेंद्रियं संभूतम् ।
एतेषां समष्टिराजसांशात् पंचप्राणाः संभूताः ।

तमोगुणः
एतेषां पंचतत्त्वानां तामसांशात्
पंचीकृतपंचतत्त्वानि भवंति ।
पंचीकरणं कथं इति चेत् ।
एतेषां पंचमहाभूतानां तामसांशस्वरूपम्
एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक्
तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य
स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् ।
तदा पंचीकरणं भवति ।
एतेभ्यः पंचीकृतपंचमहाभूतेभ्यः स्थूलशरीरं भवति ।
एवं पिंडब्रह्मांडयोरैक्यं संभूतम् ।

जीवः, ईश्वरः च
स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिंबं भवति ।
स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
अविद्योपाधिः सन् आत्मा जीव इत्युच्यते ।
मायोपाधिः सन् ईश्वर इत्युच्यते ।
एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यंतं तिष्ठति
तावत्पर्यंतं जन्ममरणादिरूपसंसारो न निवर्तते ।
तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।

तत् त्वं असि
ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य
ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः
विरुद्धधर्माक्रांतत्वात् ।
इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः ।
उपाधिविनिर्मुक्तं समाधिदशासंपन्नं शुद्धं चैतन्यं
त्वंपदलक्ष्यार्थः ।
एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः ।
उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः ।

जीवन्मुक्तः
एवं च वेदांतवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि
भूतेषु येषां
ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः ।ननु जीवन्मुक्तः कः ?
यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति
दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः
किंतु असंगः सच्चिदानंद स्वरूपः प्रकाशरूपः सर्वांतर्यामी
चिदाकाशरूपोऽस्मीति दृढनिश्चय
रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबंधविनिर्मुक्तः
स्यात् ।

कर्माणि
कर्माणि कतिविधानि संतीति चेत्
आगामिसंचितप्रारब्धभेदेन त्रिविधानि संति ।

आगामि कर्म
ज्ञानोत्पत्त्यनंतरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म
यदस्ति तदागामीत्यभिधीयते ।

संचित कर्म
संचितं कर्म किम् ?
अनंतकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं
तिष्ठति तत् संचितं ज्ञेयम् ।

प्रारब्ध कर्म
प्रारब्धं कर्म किमिति चेत् ।
इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म
तत्प्रारब्धं
भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति ।

कर्म मुक्तः
संचितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां
नलिनीदलगतजलवत् ज्ञानिनां संबंधो नास्ति ।

ज्ञानिः
किंच ये ज्ञानिनं स्तुवंति भजंति अर्चयंति तान्प्रति
ज्ञानिकृतं आगामि पुण्यं गच्छति ।
ये ज्ञानिनं निंदंति द्विषंति दुःखप्रदानं कुर्वंति तान्प्रति
ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म
पापात्मकं तद्गच्छति ।
सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णंति ।

ब्रह्मानंदम्
तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानंदमिहैव प्राप्नोति ।
तरति शोकमात्मवित् इति श्रुतेः ।
तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा ।
ज्ञानसंप्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च ।इति श्रीशंकरभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।




Browse Related Categories: