View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री स्वर्ण आकर्षण भैरव स्तोत्रम्

ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामंत्रस्य ब्रह्म ऋषिः अनुष्टुप् छंदः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥

ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वांगे ।
ह्रां ह्रीं ह्रूं इति कर षडंगन्यासः ॥

ध्यानम् ।
पारिजातद्रुम कांतारे स्थिते माणिक्यमंडपे ।
सिंहासनगतं वंदे भैरवं स्वर्णदायकम् ॥

गांगेय पात्रं डमरूं त्रिशूलं
वरं करः संदधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥

मंत्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।

स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवंद्याय वरदाय परात्मने ॥ 1 ॥

रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥

नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥

नमस्तेऽनेककंठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥

अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥

नमो दारिद्र्यकालाय महासंपत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥

दिगंबर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥

नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥

नमोऽस्त्वनंतवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥

नमः उग्राय शांताय भक्तेभ्यः शांतिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥

नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥

दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥

रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥

नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥

नमो लोकत्रयेशाय स्वानंदनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥

नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥

नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मंत्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥

नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥

नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥

नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥

नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतंत्राय ह्यनंताय नमो नमः ॥ 22 ॥

द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥

पूर्णचंद्रप्रतीकाशवदनांभोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालंकारशोभिने ॥ 24 ॥

नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकंठाय स्वर्णालंकारधारिणे ॥ 25 ॥

स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकांचीसुशोभिने ॥ 26 ॥

नमस्ते स्वर्णजंघाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥

चिंतामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥

नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन संतुष्टो भव लोकेशभैरव ॥ 29 ॥

पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥

फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मंत्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥

यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥

चिंतामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥

संध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥

स्वर्णराशि ददात्येव तत्‍क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥

लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसंभव ॥ 36 ॥

म्रियंते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥

अष्टपंचाशताणढ्यो मंत्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥

य येन संजपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वांतकाले भवेद्ध्रुवम् ॥ 39 ॥

इति रुद्रयामल तंत्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥




Browse Related Categories: