फलाश पुष्पसंकाशं तारकाग्रह मस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ 1 ॥
धूम्र वर्णां ध्वजाकारं द्विभुजं वरदांगदम् ।
वैढूर्याभरणं चैव वैढूर्यमकुटं फणिम् ॥ 2 ॥
अंत्यग्रहो महाशीर्षि सूर्यारिः पुष्पवर्ग्रही ।
गृध्रानन गतं नित्यं ध्यायेत् सर्वफलास्तये ॥ 3 ॥
पातुनेत्र पिंगलाक्षः श्रुतिमे रक्तलोचनः ।
पातुकंठं चमे केतुः स्कंदौ पातुग्रहाधिपः ॥ 4 ॥
प्रणमामि सदादेवं ध्वजाकारं ग्रहेश्वरम् ।
चित्रांबरधरं देवं तं केतुं प्रणमाम्यहम् ॥ 5 ॥