View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

मांडूक्य उपनिषद्

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इंद्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

॥ अथ मांडूक्योपनिषत् ॥

हरिः ओम् ।
ओमित्येतदक्षरमिदग्ं सर्वं तस्योपव्याख्यानं
भूतं भवद् भविष्यदिति सर्वमोंकार एव
यच्चान्यत् त्रिकालातीतं तदप्योंकार एव ॥ 1 ॥

सर्वग्ं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ 2 ॥

जागरितस्थानो बहिष्प्रज्ञः सप्तांग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ 3 ॥

स्वप्नस्थानोऽंतःप्रज्ञः सप्तांग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ 4 ॥

यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं
पश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानंदमयो ह्यानंदभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ 5 ॥

एष सर्वेश्वरः एष सर्वज्ञ एषोऽंतर्याम्येष योनिः सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ 6 ॥

नांतःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं
न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिंत्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपंचोपशमं
शांतं शिवमद्वैतं चतुर्थं मन्यंते स आत्मा स विज्ञेयः ॥ 7 ॥

सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ 8 ॥

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्
वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं-वेँद ॥ 9 ॥

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्​षात्
उभयत्वाद्वोत्कर्​षति ह वै ज्ञानसंततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं-वेँद ॥ 10 ॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं-वेँद ॥ 11 ॥

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपंचोपशमः शिवोऽद्वैत
एवमोंकार आत्मैव सं​विँशत्यात्मनाऽऽत्मानं-यँ एवं-वेँद ॥ 12 ॥

॥ इति मांडूक्योपनिषत् समाप्ता ॥




Browse Related Categories: