ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ अथ माण्डूक्योपनिषत् ॥
हरिः ओम् ।
ओमित्येतदक्षरमिदग्ं सर्व-न्तस्योपव्याख्यानं
भूत-म्भवद् भविष्यदिति सर्वमोङ्कार एव
यच्चान्य-त्त्रिकालातीत-न्तदप्योङ्कार एव ॥ 1 ॥
सर्वग्ं ह्येतद् ब्रह्मायमात्मा ब्रह्म सो-ऽयमात्मा चतुष्पात् ॥ 2 ॥
जागरितस्थानो बहिष्प्रज्ञ-स्सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ 3 ॥
स्वप्नस्थानो-ऽन्तःप्रज्ञ-स्सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ 4 ॥
यत्र सुप्तो न कञ्चन काम-ङ्कामयते न कञ्चन स्वप्नं
पश्यति त-थ्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ 5 ॥
एष सर्वेश्वरः एष सर्वज्ञ एषो-ऽन्तर्याम्येष योनि-स्सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ 6 ॥
नान्तःप्रज्ञ-न्न बहिष्प्रज्ञ-न्नोभयतःप्रज्ञ-न्न प्रज्ञानघनं
न प्रज्ञ-न्नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसार-म्प्रपञ्चोपशमं
शान्तं शिवमद्वैत-ञ्चतुर्थ-म्मन्यन्ते स आत्मा स विज्ञेयः ॥ 7 ॥
सो-ऽयमात्माध्यक्षरमोङ्कारो-ऽधिमात्र-म्पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ 8 ॥
जागरितस्थानो वैश्वानरो-ऽकारः प्रथमा मात्रा-ऽऽप्तेरादिमत्त्वाद्
वा-ऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं-वेँद ॥ 9 ॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्
उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं-वेँद ॥ 10 ॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं-वेँद ॥ 11 ॥
अमात्रश्चतुर्थो-ऽव्यवहार्यः प्रपञ्चोपशम-श्शिवो-ऽद्वैत
एवमोङ्कार आत्मैव संविँशत्यात्मना-ऽऽत्मानं-यँ एवं-वेँद ॥ 12 ॥
॥ इति माण्डूक्योपनिष-थ्समाप्ता ॥