| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
तृचा कल्प सूर्य नमस्कार क्रमः आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति पूजा-ङ्कृत्वा । सङ्कल्पः ध्यानम् उरसा शिरसा दृष्ट्या मनसा वचसा तथा । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओम् । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 1 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रीं ओम् । रवये नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हृ॒द्रो॒ग-म्मम॑ सूर्य ह्रूं ओम् । सूर्याय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं हरि॒माण᳚-ञ्च नाशय ह्रैं ओम् । भानवे नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओम् । खगाय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओम् । पूष्णे नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओम् । हिरण्यगर्भाय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं हरि॒माण॒-न्निद॑ध्मसि ह्रीं ओम् । मरीचये नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओम् । आदित्याय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं-विँश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओम् । सवित्रे नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौ-न्द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओम् । अर्काय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रः ओम् । भास्कराय नमः । ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रां ह्रीं ओम् । मित्ररविभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 13 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हैं हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय ह्रूं ह्रैं ओम् । सूर्यभानुभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 14 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्र-श्शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओम् । खगपूषभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 15 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि ह्रां ह्रीं ओम् । हिरण्यगर्भमरीचिभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 16 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओम् । आदित्यसवितृभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 17 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रौं ह्रः ओम् । अर्कभास्कराभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 18 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् । हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओम् । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 19 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओम् । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 20 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओम् । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 21 ॥ ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मक-श्श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवन्तु ॥
|