View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

तृचा कल्प सूर्य नमस्कार क्रमः

आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति पूजा-ङ्कृत्वा ।

सङ्कल्पः
पूर्वोक्त एव-ङ्गुणविशेषण विशिष्टायां शुभतिथौ श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थं श्रीसवितृसूर्यनारायण प्रीत्यर्थ-म्भविष्योत्तरपुराणोक्त तृचकल्पविधिना एकावृत्त्या नमस्काराख्य-ङ्कर्म करिष्ये ॥

ध्यानम्
ध्येय-स्सदा सवितृमण्डलमध्यवर्ती
नारायण-स्सरसिजासनसन्निविष्टः ।
केयूरवा-न्मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्य-म्प्रणामो-ऽष्टाङ्ग उच्यते ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां उ॒द्यन्न॒द्य मि॑त्रमहः ह्रां ओम् । मित्राय नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 1 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रीं ओम् । रवये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 2 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हृ॒द्रो॒ग-म्मम॑ सूर्य ह्रूं ओम् । सूर्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 3 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं हरि॒माण᳚-ञ्च नाशय ह्रैं ओम् । भानवे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 4 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं शुके᳚षु मे हरि॒माणं᳚ ह्रौं ओम् । खगाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 5 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः रोप॒णाका᳚सु दध्मसि ह्रः ओम् । पूष्णे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 6 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां अथो᳚ हारिद्र॒वेषु॑ मे ह्रां ओम् । हिरण्यगर्भाय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 7 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रीं हरि॒माण॒-न्निद॑ध्मसि ह्रीं ओम् । मरीचये नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 8 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं उद॑गाद॒यमा᳚दि॒त्यः ह्रूं ओम् । आदित्याय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 9 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रैं-विँश्वे᳚न॒ सह॑सा स॒ह ह्रैं ओम् । सवित्रे नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 10 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौ-न्द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्न्॑ ह्रौं ओम् । अर्काय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 11 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रः मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रः ओम् । भास्कराय नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 12 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिवं᳚ ह्रां ह्रीं ओम् । मित्ररविभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 13 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं हैं हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय ह्रूं ह्रैं ओम् । सूर्यभानुभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 14 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्र-श्शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ह्रौं ह्रः ओम् । खगपूषभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 15 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि ह्रां ह्रीं ओम् । हिरण्यगर्भमरीचिभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 16 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ह्रूं ह्रैं ओम् । आदित्यसवितृभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 17 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धं ह्रौं ह्रः ओम् । अर्कभास्कराभ्या-न्नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 18 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् । हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय । ह्रां ह्रीं ह्रूं ह्रैं ओम् । मित्ररविसूर्यभानुभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 19 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रौं ह्रः ह्रां ह्रीं शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि । अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि । ह्रौं ह्रः ह्रां ह्रीं ओम् । खगपूषहिरण्यगर्भमरीचिभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 20 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रूं ह्रैं ह्रौं ह्रः उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह । द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् । ह्रूं ह्रैं ह्रौं ह्रः ओम् । आदित्यसवित्रर्कभास्करेभ्यो नमः । श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 21 ॥

ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रा॒-न्दिव᳚म् ।
हृ॒द्रो॒ग-म्मम॑ सूर्य हरि॒माण᳚-ञ्च नाशय ।
शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि ।
अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माण॒-न्नि द॑ध्मसि ।
उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह ।
द्वि॒षन्त॒-म्मह्यं᳚ र॒न्धय॒न्मो अ॒ह-न्द्वि॑ष॒ते र॑धम् ।
ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ओम् । मित्र रवि सूर्य भानु खग पूष हिरण्यगर्भ मरीच्यादित्यसवित्रर्क भास्करेभ्यो नमः ।
श्रीसवितृसूर्यनारायण परब्रह्मणे नम-स्साष्टाङ्ग नमस्कारान् समर्पयामि ॥ 22, 23, 24 ॥ (इति त्रिः)

अनेन मया कृत तृचाकल्पनमस्कारेण भगवान् सर्वात्मक-श्श्रीपद्मिनी उषा छाया समेत श्रीसवितृसूर्यनारायण सुप्रीतो सुप्रसन्नो भवन्तु ॥




Browse Related Categories: