देवानाञ्च ऋषीणाञ्च गुरुकाञ्चन सन्निभम् ।
बुद्धि मन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 1 ॥
वराक्षमालां दण्डं च कमण्डलधरं विभुम् ।
पुष्यरागाङ्कितं पीतं वरदां भावयेत् गुरुम् ॥ 2 ॥
अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा ॥ 3 ॥
आङ्गीरसाब्दसञ्जात अङ्गीरस कुलोद्भवः ।
इन्द्रादिदेवो देवेशो देवताभीष्टदायिकः ॥ 4 ॥
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम् ॥ 5 ॥