हिमकुन्द मृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ 1 ॥
शुक्लाम्बरं शुक्ल माल्यं शुक्ल गन्धानुलेपनम् ।
वज्र माणिक्य भूषाढ्यं किरीट मकुटोज्ज्वलम् ॥ 2 ॥
श्वेताम्बर श्वेतवपुश्चतुर्भुज समन्वितः ।
रत्न सिंहासनारूडो रथस्थोरजतप्रभः ॥ 3 ॥
भृगुर्भोगकरो भूमीसुरपालन तत्परः ।
सर्वैश्वर्य प्रद स्वर्वगीर्वाण गणसन्नुतः ॥ 4 ॥
दण्डहस्तञ्च वरदां भानुज्वालाङ्ग शोभितम् ।
अक्षमाला कमण्डलं देवं तं भार्गवं प्रणमाम्यहम् ॥ 5 ॥