View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

बुध अष्टोत्तर शत नाम स्तोत्रम्

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।
दृढव्रतो दृढफलः श्रुतिजालप्रबोधकः ॥ 1 ॥

सत्यवासः सत्यवचाः श्रेयसां पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ 2 ॥

वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्वरः ।
विद्याविचक्षण विभुर्विद्वत्प्रीतिकरो ऋजः ॥ 3 ॥

विश्वानुकूलसञ्चारो विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ 4 ॥

त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ 5 ॥

वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसन्नवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ 6 ॥

सत्यवान् सत्यसङ्कल्पः सत्यबन्धुः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ 7 ॥

वाणिज्यनिपुणो वश्यो वाताङ्गो वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ 8 ॥

अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ 9 ॥

चारुशीलः स्वप्रकाशः चपलश्च जितेन्द्रियः ।
उदङ्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ 10 ॥

सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवङ्करः ॥ 11 ॥

पीताम्बरो पीतवपुः पीतच्छत्रध्वजाङ्कितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ 12 ॥

आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसङ्काशः चारणः चारुभूषणः ॥ 13 ॥

वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धमुक्तो बाणमण्डलसंश्रितः ॥ 14 ॥

अर्केशानप्रदेशस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ 15 ॥

मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ 16 ॥

बुधस्यैवं प्रकारेण नाम्नामष्टोत्तरं शतम् ।
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ 17 ॥

इति श्री बुध अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: