View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शुक्र अष्टोत्तर शत नाम स्तोत्रम्

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ 1 ॥

दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।
काव्यासक्तः कामपालः कविः कल्याणदायकः ॥ 2 ॥

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ 3 ॥

चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ 4 ॥

सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ 5 ॥

भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाशयः ॥ 6 ॥

बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबन्धविमोचकः ॥ 7 ॥

घनाशयो घनाध्यक्षो कम्बुग्रीवः कलाधरः ।
कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः ॥ 8 ॥

श्वेताम्बरः श्वेतवपुश्चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिन्त्यो अक्षीणगुणभासुरः ॥ 9 ॥

नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ 10 ॥

चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ 11 ॥

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ 12 ॥

कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ 13 ॥

रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥ 14 ॥

तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ 15 ॥

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ 16 ॥

अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ 17 ॥

एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् ।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ 18 ॥

इति श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: