सावित्र्युवाच ।
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ।
धर्मं सूर्यःसुतं प्राप धर्मराजं नमाम्यहम् ॥ 1 ॥
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।
अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ 2 ॥
येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।
कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् ॥ 3 ॥
बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ।
नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् ॥ 4 ॥
विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ।
अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ 5 ॥
तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ।
जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥ 6 ॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ।
पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ 7 ॥
यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।
यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥ 8 ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ।
यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥ 9 ॥
इदं यमष्टकं नित्यं प्रातरुत्थाय यः पठेत् ।
यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ 10 ॥
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ।
यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ 11 ॥
इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे एकत्रिंशोऽध्यायः ।