View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

दुर्गा कवचम् (ब्रह्मांड पुराणम्)

नारायण उवाच ।
ॐ दुर्गेति चतुर्थ्यंतः स्वाहांतो मे शिरोऽवतु ।
मंत्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ 1 ॥

विचारो नास्ति वेदेषु ग्रहणेऽस्य मनोर्मुने ।
मंत्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ 2 ॥

मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽंततः ।
ॐ दुर्गे रक्षयति च कंठं पातु सदा मम ॥ 3 ॥

ॐ ह्रीं श्रीमिति मंत्रोऽयं स्कंधं पातु निरंतरम् ।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ 4 ॥

ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति संततम् ।
श्रीं ह्रीं क्लीं पातु सर्वांगं स्वप्ने जागरणे तथा ॥ 5 ॥

प्राच्यां मां प्रकृतिः पातुः पातु वह्नौ च चंडिका ।
दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी ॥ 6 ॥

वारुण्यां पातु वाराही वायव्यां सर्वमंगला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ 7 ॥

जले स्थले चांतरिक्षे पातु मां जगदंबिका ।
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ 8 ॥

यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचंदनैः ।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ॥ 9 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखंडे नारदनारायणसंवादे दुर्गोपाख्याने सप्तषष्टितमोऽध्याये ब्रह्मांडमोहनं नाम श्री दुर्गा कवचम् ।




Browse Related Categories: