View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री ललिता स्तवरत्नम् (आर्या द्विशती)

वंदे गजेंद्रवदनं
वामांकारूढवल्लभाश्लिष्टम् ।
कुंकुमपरागशोणं
कुवलयिनीजारकोरकापीडम् ॥ 1 ॥

स जयति सुवर्णशैलः
सकलजगच्चक्रसंघटितमूर्तिः ।
कांचननिकुंजवाटी-
-कंदलदमरीप्रपंचसंगीतः ॥ 2 ॥

हरिहयनैरृतमारुत-
-हरितामंतेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं
विधिहरिगौरीशविष्टपाधारम् ॥ 3 ॥

मध्ये पुनर्मनोहर-
-रत्नरुचिस्तबकरंजितदिगंतम् ।
उपरि चतुःशतयोजन-
-मुत्तुंगं शृंगपुंगवमुपासे ॥ 4 ॥

तत्र चतुःशतयोजन-
-परिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं
नमाम्यहं नगरमादिविद्यायाः ॥ 5 ॥

प्रथमं सहस्रपूर्वक-
-षट्शतसंख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं
वरणं शरणं व्रजाम्ययोरूपम् ॥ 6 ॥

तस्योत्तरे समीरण-
-योजनदूरे तरंगितच्छायः ।
घटयतु मुदं द्वितीयो
घंटास्तनसारनिर्मितः सालः ॥ 7 ॥

उभयोरंतरसीम-
-न्युद्दामभ्रमररंजितोदारम् ।
उपवनमुपास्महे वय-
-मूरीकृतमंदमारुतस्यंदम् ॥ 8 ॥

आलिंग्य भद्रकाली-
-मासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे
विहरतु मधुपानविभ्रमन्नेत्रः ॥ 9 ॥

तार्तीयीको वरण-
-स्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्ति-
-स्तनुतामाचंद्रतारकं भद्रम् ॥ 10 ॥

मध्ये तयोश्च मणिमय-
-पल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं
कलये मकरंदपंकिलावालाम् ॥ 11 ॥

तत्र मधुमाधवश्री-
-तरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिंगितोऽवतान्मा-
-मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ 12 ॥

नमत तदुत्तरभागे
नाकिपथोल्लंघिशृंगसंघातम् ।
सीसाकृतिं तुरीयं
सितकिरणालोकनिर्मलं सालम् ॥ 13 ॥

सालद्वयांतराले
सरलालिकपोतचाटुसुभगायाम् ।
संतानवाटिकायां
सक्तं चेतोऽस्तु सततमस्माकम् ॥ 14 ॥

तत्र तपनातिरूक्षः
साम्राज्ञीचरणसांद्रितस्वांतः ।
शुक्रशुचिश्रीसहितो
ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ 15 ॥

उत्तरसीमनि तस्यो-
-न्नतशिखरोत्कंपिहाटकपताकः ।
प्रकटयतु पंचमो नः
प्राकारः कुशलमारकूटमयः ॥ 16 ॥

प्राकारयोश्च मध्ये
पल्लवितान्यभृतपंचमोन्मेषा ।
हरिचंदनद्रुवाटी-
-हरतादामूलमस्मदनुतापम् ॥ 17 ॥

तत्र नभः श्रीमुख्यै-
-स्तरुणीवर्गैः समन्वितः परितः ।
वज्राट्टहासमुखरो
वांछापूर्तिं तनोतु वर्षर्तुः ॥ 18 ॥

मारुतयोजनदूरे
महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः
प्राकारः पंचलोहधातुमयः ॥ 19 ॥

अनयोर्मध्ये संतत-
-मंकूरद्दिव्यकुसुमगंधायाम् ।
मंदारवाटिकायां
मानसमंगीकरोतु मे विहृतिम् ॥ 20 ॥

तस्यामिषोर्जलक्ष्मी-
-तरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीया-
-दंबामामोदमेदुरैः कुसुमैः ॥ 21 ॥

तस्यर्षिसंख्ययोजन-
-दूरे देदीप्यमानशृंगौघः ।
कलधौतकलितमूर्तिः
कल्याणं दिशतु सप्तमः सालः ॥ 22 ॥

मध्ये तयोर्मरुत्पथ
लंघितविटपाग्रविरुतकलकंठा ।
श्रीपारिजातवाटी
श्रियमनिशं दिशतु शीतलोद्देशा ॥ 23 ॥

तस्यामतिप्रियाभ्यां
सह खेलन् सहसहस्यलक्ष्मीभ्याम् ।
सामंतो झषकेतो-
-र्हेमंतो भवतु हेमवृद्ध्यै नः ॥ 24 ॥

उत्तरतस्तस्य महा-
-नुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखंडरचित-
-स्तनुतादायुष्यमष्टमो वरणः ॥ 25 ॥

कादंबविपिनवाटी-
-मनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरक-
-कंदलितामोदतुंदिलसमीराम् ॥ 26 ॥

तस्यामतिशिशिराकृति-
-रासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे
शिशिरर्तुः सततशीतलदिगंतः ॥ 27 ॥

तस्यां कदंबवाट्यां
तत्प्रसवामोदमिलितमधुगंधम् ।
सप्तावरणमनोज्ञं
शरणं समुपैमि मंत्रिणीशरणम् ॥ 28 ॥

तत्रालये विशाले
तपनीयारचिततरलसोपाने ।
माणिक्यमंडपांत-
-र्महिते सिंहासने सुमणिखचिते ॥ 29 ॥

बिंदुत्रिपंचकोण-
-द्विपनृपवसुवेददलकुरेखाढ्ये ।
चक्रे सदा निविष्टां
षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ 30 ॥

तापिंछमेचकाभां
तालीदलघटितकर्णताटंकाम् ।
तांबूलपूरितमुखीं
ताम्राधरबिंबदृष्टदरहासाम् ॥ 31 ॥

कुंकुमपंकिलदेहां
कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां
कोकिलनिक्वाणकोमलालापाम् ॥ 32 ॥

वामांगगलितचूलीं
वनमाल्यकदंबमालिकाभरणाम् ।
मुक्ताललंतिकांचित
मुग्धालिकमिलितचित्रकोदाराम् ॥ 33 ॥

करविधृतकीरशावक-
-कलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसंगिवीणावादन-
-सौख्यार्धमीलिताक्षियुगाम् ॥ 34 ॥

आपाटलांशुकधरा-
-मादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिका-
-माद्यां संगीतमातृकां वंदे ॥ 35 ॥

तस्य च सुवर्णसाल-
-स्योत्तरतस्तरुणकुंकुमच्छायः ।
शमयतु मम संतापं
सालो नवमः स पुष्परागमयः ॥ 36 ॥

अनयोरंतरवसुधाः
प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनु-
-चिंतननिस्तंद्रसिद्धनीरंध्राः ॥ 37 ॥

तत्सालोत्तरदेशे
तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मराग-
-प्राकारो मम पराभवं दशमः ॥ 38 ॥

अंतरभूकृतवासा-
-ननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तां-
-श्चारणवर्गानहर्निशं कलये ॥ 39 ॥

सारंगवाहयोजनदूरे-
-ऽसंघटितकेतनस्तस्य ।
गोमेदकेन रचितो
गोपायतु मां समुन्नतः सालः ॥ 40 ॥

वप्रद्वयांतरोर्व्यां
वटुकैर्विविधैश्च योगिनीबृंदैः ।
सततं समर्चितायाः
संकर्षण्याः प्रणौमि चरणाब्जम् ॥ 41 ॥

तापसयोजनदूरे
तस्य समुत्तुंग गोपुरोपेतः ।
वांछापूर्त्यै भवता-
-द्वज्रमणीनिकरनिर्मितो वप्रः ॥ 42 ॥

वरणद्वितयांतरतो
वासजुषो विहितमधुरसास्वादाः ।
रंभादिविबुधवेश्या
रचयंतु महांतमस्मदानंदम् ॥ 43 ॥

तत्र सदा प्रवहंती
तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्य-
-त्कलहंसीकुलकलक्वणितपुष्टा ॥ 44 ॥

रोधसि तस्या रुचिरे
वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषित-
-वज्रिमुखत्रिदशविनुतचारित्रा ॥ 45 ॥

तस्योदीच्यां हरिति
स्तवकितसुषमावलीढवियदंतः ।
वैडूर्यरत्नरचितो
वैमल्यं दिशतु चेतसो वरणः ॥ 46 ॥

अधिमध्यमेतयोः पुन-
-रंबाचरणावलंबितस्वांतान् ।
कार्कोटकादिनागान्
कलयामः किं च बलिमुखान् दनुजान् ॥ 47 ॥

गंधवहसंख्ययोजन-
-दूरे गगनोर्ध्वजांघिकस्तस्य ।
वासवमणिप्रणीतो
वरणो बहलयतु वैदुषीं विशदाम् ॥ 48 ॥

मध्यक्षोण्यामनयो-
-र्महेंद्रनीलात्मकानि च सरांसि ।
शातोदरीसहाया-
-न्भूपालानपि पुनः पुनः प्रणुमः ॥ 49 ॥

आशुगयोजनदूरे
तस्योर्ध्वं कांतिधवलितदिगंतः ।
मुक्ताविरचितगात्रो
मुहुरस्माकं मुदे भवतु सालः ॥ 50 ॥

आवृत्त्योरधिमध्यं
पूर्वस्यां दिशि पुरंदरः श्रीमान् ।
अभ्रमुविटाधिरूढो
विभ्रममस्माकमनिशमातनुतात् ॥ 51 ॥

तत्कोणे व्यजनस्रु-
-क्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः
सुखयतु मां हव्यवाहनः सुचिरम् ॥ 52 ॥

दक्षिणदिगंतराले
दंडधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु
मम निखिलमंहसां निकरम् ॥ 53 ॥

तस्यैव पश्चिमायां
दिशि दलितेंदीवरप्रभाश्यामः ।
खेटासियष्टिधारी
खेदानपनयतु यातुधानो मे ॥ 54 ॥

तस्या उत्तरदेशे
धवलांगो विपुलझषवरारूढः ।
पाशायुधात्तपाणिः
पाशी विदलयतु पाशजालानि ॥ 55 ॥

वंदे तदुत्तरहरि-
-त्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधा-
-न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ 56 ॥

तरुणीरिडाप्रधाना-
-स्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायन-
-पानपरिभ्रांतलोचनाः कलये ॥ 57 ॥

तल्लोकपूर्वभागे
धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्या-
-नंबाचरणावलंबिनो यक्षान् ॥ 58 ॥

तस्यैव पूर्वसीमनि
तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं
कलये शीतांशुखंडचूडालम् ॥ 59 ॥

तत्पुरषोडशवरण-
-स्थलभाजस्तरुणचंद्रचूडालान् ।
रुद्राध्याये पठिता-
-न्रुद्राणीसहचरान्भजे रुद्रान् ॥ 60 ॥

पवमानसंख्ययोजन-
-दूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः
संपदमचलां श्रियं च पुष्णातु ॥ 61 ॥

आवृतियुग्मांतरतो
हरितमणीनिवहमेचके देशे ।
हाटकतालीविपिनं
हालाघटघटितविटपमाकलये ॥ 62 ॥

तत्रैव मंत्रिणीगृह-
-परिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं
दद्यादायूंषि दंडनाथायाः ॥ 63 ॥

सदने तत्र हरिन्मणि-
-संघटिते मंडपे शतस्तंभे ।
कार्तस्वरमयपीठे
कनकमयांबुरुहकर्णिकामध्ये ॥ 64 ॥

बिंदुत्रिकोणवर्तुल-
-षडस्रवृत्तद्वयान्विते चक्रे ।
संचारिणी दशोत्तर-
शतार्णमनुराजकमलकलहंसी ॥ 65 ॥

कोलवदना कुशेशय-
-नयना कोकारिमंडितशिखंडा ।
संतप्तकांचनाभा
संध्यारुणचेलसंवृतनितंबा ॥ 66 ॥

हलमुसलशंखचक्रा-
-ऽंकुशपाशाभयवरस्फुरितहस्ता ।
कूलंकषानुकंपा
कुंकुमजंबालितस्तनाभोगा ॥ 67 ॥

धूर्तानामतिदूरा-
-वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री
वार्ताली भवतु वांछितार्थाय ॥ 68 ॥

तस्याः परितो देवीः
स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जंभिन्याद्याः
भैरववर्गांश्च हेतुकप्रमुखान् ॥ 69 ॥

पूर्वोक्तसंख्ययोजन-
-दूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं
विद्रुमसालो विशंकटद्वारः ॥ 70 ॥

आवरणयोरहर्निश-
-मंतरभूमौप्रकाशशालिन्याम् ।
आसीनमंबुजासन-
-मभिनवसिंदूरगौरमहमीडे ॥ 71 ॥

वरणस्य तस्य मारुत-
-योजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः
संघटितांगः कृषीष्ट मदभीष्टम् ॥ 72 ॥

अंतरकक्ष्यामनयो-
-रविरलशोभापिचंडिलोद्देशाम् ।
माणिक्यमंडपाख्यां
महतीमधिहृदयमनिशमाकलये ॥ 73 ॥

तत्र स्थितं प्रसन्नं
तरुणतमालप्रवालकिरणाभम् ।
कर्णावलंबिकुंडल-
-कंदलिताभीशुकवचितकपोलम् ॥ 74 ॥

शोणाधरं शुचिस्मित-
-मेणांकवदनमेधमानकृपम् ।
मुग्धैणमदविशेषक-
-मुद्रितनिटिलेंदुरेखिकारुचिरम् ॥ 75 ॥

नालीकदलसहोदर-
-नयनांचलघटितमनसिजाकूतम् ।
कमलाकठिनपयोधर-
-कस्तूरीघुसृणपंकिलोरस्कम् ॥ 76 ॥

चांपेयगंधिकैश्यं
शंपासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं
श्रितजनरक्षाधुरीणचरणाब्जम् ॥ 77 ॥

कंबुसुदर्शनविलस-
-त्करपद्मं कंठलोलवनमालम् ।
मुचुकुंदमोक्षफलदं
मुकुंदमानंदकंदमवलंबे ॥ 78 ॥

तद्वरणोत्तरभागे
तारापतिबिंबचुंबिनिजशृंगः ।
विविधमणीगणघटितो
वितरतु सालो विनिर्मलां धिषणाम् ॥ 79 ॥

प्राकारद्वितयांतर-
-कक्ष्यां पृथुरत्ननिकरसंकीर्णाम् ।
नमत सहस्रस्तंभक-
-मंडपनाम्नातिविश्रुतां भुवने ॥ 80 ॥

प्रणुमस्तत्र भवानी-
-सहचरमीशानमिंदुखंडधरम् ।
शृंगारनायिकामनु-
-शीलनभाजोऽपि भृंगिनंदिमुखान् ॥ 81 ॥

तस्यैणवाहयोजन-
-दूरे वंदे मनोमयं वप्रम् ।
अंकूरन्मणिकिरणा-
-मंतरकक्ष्यां च निर्मलामनयोः ॥ 82 ॥

तत्रैवामृतवापीं
तरलतरंगावलीढतटयुग्माम् ।
मुक्तामयकलहंसी-
-मुद्रितकनकारविंदसंदोहाम् ॥ 83 ॥

शक्रोपलमयभृंगी-
-संगीतोन्मेषघोषितदिगंताम् ।
कांचनमयांगविलस-
-त्कारंडवषंडतांडवमनोज्ञाम् ॥ 84 ॥

कुरुविंदात्मकहल्लक-
-कोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां
कंदलितामंदकैरवामोदाम् ॥ 85 ॥

तद्वापिकांतराले तरले
मणिपोतसीम्नि विहरंतीम् ।
सिंदूरपाटलांगीं
सितकिरणांकूरकल्पितवतंसाम् ॥ 86 ॥

पर्वेंदुबिंबवदनां
पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरीं कुरंगी-
-शिशुनयनां कुंडलस्फुरितगंडाम् ॥ 87 ॥

निकटस्थपोतनिलयाः
शक्तीः शयविधृतहेमशृंगजलैः ।
परिषिंचंतीं परित-
-स्तारां तारुण्यगर्वितां वंदे ॥ 88 ॥

प्रागुक्तसंख्ययोजनदूरे
प्रणमामि बुद्धिमयसालम् ।
अनयोरंतरकक्ष्या-
-मष्टापदपुष्टमेदिनीं रुचिराम् ॥ 89 ॥

कादंबरीनिधानां
कलयाम्यानंदवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मित-
-सोपानश्रेणिशोभमानतटीम् ॥ 90 ॥

माणिक्यतरणिनिलयां
मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधाना-
-मंतः कलयामि वारुणीं देवीम् ॥ 91 ॥

सौवर्णकेनिपातन-
-हस्ताः सौंदर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो
वितरंत्वस्माकमायुषो वृद्धिम् ॥ 92 ॥

तस्य पृषदश्वयोजन-
-दूरेऽहंकारसालमतितुंगम् ।
वंदे तयोश्च मध्ये
कक्ष्यां वलमानमलयपवमानाम् ॥ 93 ॥

विनुमो विमर्शवापीं
सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलंघ्यवीची-
-कोलाहलभरितकूलवनवाटीम् ॥ 94 ॥

तत्रैव सलिलमध्ये
तापिंछदलप्रपंचसुषमाभाम् ।
श्यामलकंचुकलसितां
श्यामाविटबिंबडंबरहरास्याम् ॥ 95 ॥

आभुग्नमसृणचिल्ली-
-हसितायुग्मशरकार्मुकविलासाम् ।
मंदस्मितांचितमुखीं
मणिमयताटंकमंडितकपोलाम् ॥ 96 ॥

कुरुविंदतरणिनिलयां
कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुंकुमविलिप्तगात्रीं
कुरुकुल्लां मनसि कुर्महे सततम् ॥ 97 ॥

तत्सालोत्तरभागे
भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयो-
-र्मन्ये विश्रांतमातपोद्गारम् ॥ 98 ॥

तत्र कुरुविंदपीठे
तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवासस-
-मम्लानप्रसवमालिकाभरणम् ॥ 99 ॥

चक्षुष्मतीप्रकाशन-
-शक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं
मन्ये मार्तांडभैरवं हृदये ॥ 100 ॥

इंदुमयसालमीडे
तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यंतशिशिरमारुत-
-मनयोर्मध्यं च चंद्रिकोद्गारम् ॥ 101 ॥

तत्र प्रकाशमानं
तारानिकरैः परिष्कृतोद्देशम् ।
अमृतमयकांतिकंदल-
-मंतः कलयामि कुंदसितमिंदुम् ॥ 102 ॥

शृंगारसालमीडे
शृंगोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि
महितां शृंगारपूर्विकां परिखाम् ॥ 103 ॥

तत्र मणिनौस्थिताभि-
-स्तपनीयाविरचिताग्रहस्ताभिः ।
शृंगारदेवताभिः
सहितं परिखाधिपं भजे मदनम् ॥ 104 ॥

शृंगारवरणवर्यस्योत्तरतः
सकलविबुधसंसेव्यम् ।
चिंतामणिगणरचितं
चिंतां दूरीकरोतु मे सदनम् ॥ 105 ॥

मणिसदनसालयोरधि-
-मध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णै-
-र्युक्तां कांडैश्च योजनोत्तुंगैः ॥ 106 ॥

मृदुलैस्तालीपंचक-
-मानैर्मिलितां च केसरकदंबैः ।
संततगलितमरंद-
-स्रोतोनिर्यन्मिलिंदसंदोहाम् ॥ 107 ॥

पाटीरपवनबालक-
-धाटीनिर्यत्परागपिंजरिताम् ।
कलहंसीकुलकलकल-
-कूलंकषनिनदनिचयकमनीयाम् ॥ 108 ॥

पद्माटवीं भजामः
परिमलकल्लोलपक्ष्मलोपांताम् ।
[ देव्यर्घ्यपात्रधारी
तस्याः पूर्वदिशि दशकलायुक्तः । ]
वलयितमूर्तिर्भगवा-
-न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ 109 ॥

तत्राधारे देव्याः
पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो
ध्वांतं मम बहुलमांतरं भिंद्यात् ॥ 110 ॥

तस्मिन् दिनेशपात्रे
तरंगितामोदममृतमयमर्घ्यम् ।
चंद्रकलात्मकममृतं
सांद्रीकुर्यादमंदमानंदम् ॥ 111 ॥

अमृते तस्मिन्नभितो
विहरंत्यो विविधमणितरणिभाजः ।
षोडश कलाः सुधांशोः
शोकादुत्तारयंतु मामनिशम् ॥ 112 ॥

तत्रैव विहृतिभाजो
धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः
शमयंत्वखिलाः कलाश्च संतापम् ॥ 113 ॥

कीनाशवरुणकिन्नर-
-राजदिगंतेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं
कलयंत्वायुष्यमर्घ्यपात्राणि ॥ 114 ॥

पात्रस्थलस्य पुरतः
पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो
भवंतु भासा प्रदीपितजगंति ॥ 115 ॥

सदनस्यानलकोणे
सततं प्रणमामि कुंडमाग्नेयम् ।
तत्र स्थितं च वह्निं
तरलशिखाजटिलमंबिकाजनकम् ॥ 116 ॥

तस्यासुरदिशि तादृश-
-रत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शतांगं
शतयोजनमुन्नतं भजे दिव्यम् ॥ 117 ॥

तत्रैव दिशि निषण्णं
तपनीयध्वजपरंपराश्लिष्टम् ।
रथमपरं च भवान्या
रचयामो मनसि रत्नमयचूडम् ॥ 118 ॥

भवनस्य वायुभागे
परिष्कृतो विविधवैजयंतीभिः ।
रचयतु मुदं रथेंद्रः
सचिवेशान्याः समस्तवंद्यायाः ॥ 119 ॥

कुर्मोऽधिहृदयमनिशं
क्रोडास्यायाः शतांगमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो
रुचिरशलाकाप्रपंचकंचुकितम् ॥ 120 ॥

परितो देवीधाम्नः
प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वंतु रश्मिमाला-
-कृतयः कुशलानि देवता निखिलाः ॥ 121 ॥

प्राग्द्वारस्य भवानी-
-धाम्नः पार्श्वद्वयारचितवासे ।
मातंगीकिटिमुख्यौ
मणिसदने मनसि भावयामि चिरम् ॥ 122 ॥

योजनयुगलाभोगा
तत्क्रोशपरिणाहयैव भित्त्या च ।
चिंतामणिगृहभूमि-
-र्जीयादाम्नायमयचतुर्द्वारा ॥ 123 ॥

द्वारे द्वारे धाम्नः
पिंडीभूता नवीनबिंबाभाः ।
विदधतु विपुलां कीर्तिं
दिव्या लौहित्यसिद्ध्यो देव्यः ॥ 124 ॥

मणिसदनस्यांतरतो
महनीये रत्नवेदिकामध्ये ।
बिंदुमयचक्रमीडे
पीठानामुपरि विरचितावासम् ॥ 125 ॥

चक्राणां सकलानां
प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मा-
-मवंतु देवी प्रभास्वरूपिण्यः ॥ 126 ॥

अणिमादिसिद्धिफलक-
-स्योपरिहरिणांकखंडकृतचूडाः ।
भद्रं पक्ष्मलयंतु
ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ 127 ॥

तस्योपरि मणिफलके
तारुण्योत्तुंगपीनकुचभाराः ।
संक्षोभिणीप्रधानाः
भ्रांति विद्रावयंतु दश मुद्राः ॥ 128 ॥

फलकत्रयस्वरूपे
पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यंतु प्रकटाख्या-
-स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ 129 ॥

तदुपरि विपुले धिष्ण्ये
तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः
कलये देवीः कलाधरशिखंडाः ॥ 130 ॥

सर्वाशापरिपूरकचक्रे-
-ऽस्मिन् गुप्तयोगिनीसेव्याः ।
त्रिपुरेशी मम दुरितं
तुद्यात् कंठावलंबिमणिहारा ॥ 131 ॥

तस्योपरि मणिपीठे
ताम्रांभोरुहदलप्रभाशोणाः ।
ध्यायाम्यनंगकुसुमा-
-प्रमुखा देवीश्च विधृतकूर्पासाः ॥ 132 ॥

संक्षोभकारकेऽस्मिं-
-श्चक्रे श्रीत्रिपुरसुंदरी साक्षात् ।
गोप्त्री गुप्ततराख्याः
गोपायतु मां कृपार्द्रया दृष्ट्या ॥ 133 ॥

संक्षोभिणीप्रधानाः
शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणी-
-रंतः कलयामि यौवनोन्मत्ताः ॥ 134 ॥

सौभाग्यदायकेऽस्मिं-
-श्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च संप्रदायाभिधाः
समस्ताः प्रमोदयंत्वनिशम् ॥ 135 ॥

मणिपीठोपरि तासां
महति चतुर्हस्तविस्तृते वलये ।
संततविरचितवासाः
शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ 136 ॥

सर्वार्थसाधकाख्ये
चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं
दिशतादुत्तीर्णयोगिनीसेव्या ॥ 137 ॥

तासां निलयस्योपरि
धिष्ण्ये कौसुंभकंचुकमनोज्ञाः ।
सर्वाज्ञाद्याः देव्यः
सकलाः संपादयंतु मम कीर्तिम् ॥ 138 ॥

चक्रे समस्तरक्षा-
-करनाम्न्यस्मिन् समस्तजनसेव्याम् ।
मनसि निगर्भासहितां
मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ 139 ॥

सर्वज्ञासदनस्योपरि
चक्रे विपुले समाकलितगेहाः ।
वंदे वशिनीमुख्याः
शक्तीः सिंदूररेणुरुचः ॥ 140 ॥

श्रीसर्वरोगहराख्य-
-चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वंदे रहस्यनाम्ना
वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ 141 ॥

वशिनीगृहोपरिष्टा-
-द्विंशतिहस्तोन्नते महापीठे ।
शमयंतु शत्रुबृंदं
शस्त्राण्यस्त्राणि चादिदंपत्योः ॥ 142 ॥

शस्त्रसदनोपरिष्टा-
-द्वलये वलवैरिरत्नसंघटिते ।
कामेश्वरीप्रधानाः
कलये देवीः समस्तजनवंद्याः ॥ 143 ॥

चक्रेऽत्र सर्वसिद्धिप्रद-
-नामनि सर्वफलदात्री ।
त्रिपुरांबावतु सततं
परापररहस्ययोगिनीसेव्या ॥ 144 ॥

कामेश्वरीगृहोपरिवलये
विविधमनुसंप्रदायज्ञाः ।
चत्वारो युगनाथा
जयंतु मित्रेशपूर्वकाः गुरवः ॥ 145 ॥

नाथभवनोपरिष्टा-
-न्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः
कलयंतु मुदं तिथिस्वरूपिण्यः ॥ 146 ॥

नित्यासदनस्योपरि
निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडंगदेव्यः
कलयंत्वस्माकमुत्तरलनेत्राः ॥ 147 ॥

सदनस्योपरि तासां
सर्वानंदमयनामके बिंदौ ।
पंचब्रह्माकारां
मंचं प्रणमामि मणिगणाकीर्णम् ॥ 148 ॥

परितो मणिमंचस्य
प्रलंबमाना नियंत्रिता पाशैः ।
मायामयी जवनिका
मम दुरितं हरतु मेचकच्छाया ॥ 149 ॥

मंचस्योपरि लंब-
-न्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं
हरतादालस्यमनिशमस्माकम् ॥ 150 ॥

पर्यंकस्य भजामः
पादान्बिंबांबुदेंदुहेमरुचः ।
अजहरिरुद्रेशमया-
-ननलासुरमारुतेशकोणस्थान् ॥ 151 ॥

फलकं सदाशिवमयं
प्रणौमि सिंदूररेणुकिरणाभम् ।
आरभ्यांगेशीनां
सदनात्कलितं च रत्नसोपानम् ॥ 152 ॥

पट्टोपधानगंडक-
-चतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यंकोपरि घटितं
पातु चिरं हंसतूलशयनं नः ॥ 153 ॥

तस्योपरि निवसंतं
तारुण्यश्रीनिषेवितं सततम् ।
आवृंतपुल्लहल्लक-
-मरीचिकापुंजमंजुलच्छायम् ॥ 154 ॥

सिंदूरशोणवसनं
शीतांशुस्तबकचुंबितकिरीटम् ।
कुंकुमतिलकमनोहर-
-कुटिलालिकहसितकुमुदबंधुशिशुम् ॥ 155 ॥

पूर्णेंदुबिंबवदनं
फुल्लसरोजातलोचनत्रितयम् ।
तरलापांगतरंगित-
-शफरांकनशास्त्रसंप्रदायार्थम् ॥ 156 ॥

मणिमयकुंडलपुष्य-
-न्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधर-
-विसृमरसुस्मितकिशोरसंचारम् ॥ 157 ॥

आमोदिकुसुमशेखर-
-मानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीची-
-द्विगुणितवक्त्रारविंदसौरभ्यम् ॥ 158 ॥

पाशांकुशेक्षुचाप-
-प्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपंकिलांगं
कामेशं मनसि कुर्महे सततम् ॥ 159 ॥

तस्यांकभुवि निषण्णां
तरुणकदंबप्रसूनकिरणाभाम् ।
शीतांशुखंडचूडां
सीमंतन्यस्तसांद्रसिंदूराम् ॥ 160 ॥

कुंकुमललामभास्व-
-न्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां
नासांचलनटितमौक्तिकाभरणाम् ॥ 161 ॥

अंकुरितमंदहास-
-मरुणाधरकांतिविजितबिंबाभाम् ।
कस्तूरीमकरीयुत-
-कपोलसंक्रांतकनकताटंकाम् ॥ 162 ॥

कर्पूरसांद्रवीटी-
-कबलितवदनारविंदकमनीयाम् ।
कंबुसहोदरकंठ-
-प्रलंबमानाच्छमौक्तिककलापाम् ॥ 163 ॥

कह्लारदामकोमल-
-भुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलस-
-त्कांचनमयकटकवलयसंदोहाम् ॥ 164 ॥

पाणिचतुष्टयविलस-
-त्पाशांकुशपुंड्रचापपुष्पास्त्राम् ।
कूलंकषकुचशिखरां
कुंकुमकर्दमितरत्नकूर्पासाम् ॥ 165 ॥

अणुदायादवलग्ना-
-मंबुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकांची-
-मरीचिकाक्रांतमांसलनितंबाम् ॥ 166 ॥

करभोरुकांडयुगलां
जंघाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां
पल्लवसच्छायपदयुगमनोज्ञाम् ॥ 167 ॥

कमलभवकंजलोचन-
-किरीटरत्नांशुरंजितपदाब्जाम् ।
उन्मस्तकानुकंपा-
-मुत्तरलापांगपोषितानंगाम् ॥ 168 ॥

आदिमरसावलंबा-
-मनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननी-
-मंतः कलयामि सुंदरीमनिशम् ॥ 169 ॥

कस्तु क्षितौ पटीया-
-न्वस्तु स्तोतुं शिवांकवास्तव्यम् ।
अस्तु चिरंतनसुकृतैः
प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ 170 ॥

प्रभुसम्मितोक्तिगम्यं
परमशिवोत्संगतुंगपर्यंकम् ।
तेजः किंचन दिव्यं
पुरतो मे भवतु पुंड्रकोदंडम् ॥ 171 ॥

मधुरिमभरितशरासं
मकरंदस्यंदिमार्गणोदारम् ।
कैरविणीविटचूडं
कैवल्यायास्तु किंचन महो नः ॥ 172 ॥

अक्षुद्रमिक्षुचापं
परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतर-
-मुक्षरथप्रेमपक्ष्मलं तेजः ॥ 173 ॥

भृंगरुचिसंगरकरापांगं
शृंगारतुंगमरुणांगम् ।
मंगलमभंगुरं मे
घटयतु गंगाधरांगसंगि महः ॥ 174 ॥

प्रपदाजितकूर्ममूर्जित-
-करुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शंभोः
किंचन मम नर्म शर्म निर्मातु ॥ 175 ॥

कालकुरलालिकालिम-
-कंदलविजितालि विधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं
बहुलितगलगरलकेलि किमपि महः ॥ 176 ॥

कुंकुमतिलकितफाला
कुरुविंदच्छायपाटलदुकूला ।
करुणापयोधिवेला
काचन चित्ते चकास्तु मे लीला ॥ 177 ॥

पुष्पंधयरुचिवेण्यः
पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः
काश्चन कामारिकेलिसाक्षिण्यः ॥ 178 ॥

तपनीयांशुकभांसि
द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि
क्षपयतु कपालितोषितमनांसि ॥ 179 ॥

असितकचमायताक्षं
कुसुमशरं कूलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवत-
-मंतः कलये हरांकवासि महः ॥ 180 ॥

कर्णोपांततरंगित-
-कटाक्षविस्पंदिकंठदघ्नकृपाम् ।
कामेश्वरांकनिलयां
कामपि विद्यां पुरातनीं कलये ॥ 181 ॥

अरविंदकांत्यरुंतुद-
-विलोचनद्वंद्वसुंदरमुखेंदु ।
छंदः कंदलमंदिर-
-मंतःपुरमैंदुशेखरं वंदे ॥ 182 ॥

बिंबिनिकुरंबडंबर-
-विडंबकच्छायमंबरवलग्नम् ।
कंबुगलमंबुदकुचं
बिंबोकं कमपि चुंबतु मनो मे ॥ 183 ॥

कमपि कमनीयरूपं
कलयाम्यंतः कदंबकुसुमाढ्यम् ।
चंपकरुचिरसुवेषैः
संपादितकांत्यलंकृतदिगंतम् ॥ 184 ॥

शंपारुचिभर-
-गर्हासंपादककांतिकवचितदिगंतम् ।
सिद्धांतं निगमानां
शुद्धांतं किमपि शूलिनः कलये ॥ 185 ॥

उद्यद्दिनकरशोणा-
-नुत्पलबंधुस्तनंधयापीडान् ।
करकलितपुंड्रचापा-
-न्कलये कानपि कपर्दिनः प्राणान् ॥ 186 ॥

रशनालसज्जघनया
रसनाजीवातुचापभासुरया ।
घ्राणायुष्करशरया
घ्रातं चित्तं कयापि वासनया ॥ 187 ॥

सरसिजसहयुध्वदृशा
शंपालतिकासनाभिविग्रहया ।
भासा कयापि चेतो
नासामणिशोभिवदनया भरितम् ॥ 188 ॥

नवयावकाभसिचयान्वितया
गजयानया दयापरया ।
धृतयामिनीशकलया
धिया कयापि क्षतामया हि वयम् ॥ 189 ॥

अलमलमकुसुमबाणै-
-रबिंबशोणैरपुंड्रकोदंडैः ।
अकुमुदबांधवचूडै-
-रन्यैरिह जगति दैवतं मन्यैः ॥ 190 ॥

कुवलयसदृक्षनयनैः
कुलगिरिकूटस्थबंधुकुचभारैः ।
करुणास्पंदिकटाक्षैः
कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ 191 ॥

नतजनसुलभाय नमो
नालीकसनाभिलोचनाय नमः ।
नंदितगिरिशाय नमो
महसे नवनीपपाटलाय नमः ॥ 192 ॥

कादंबकुसुमदाम्ने
कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरंतनगिरां
भूम्ने कस्मैचिदाददे प्रणतिम् ॥ 193 ॥

कुटिलकबरीभरेभ्यः
कुंकुमसब्रह्मचारिकिरणेभ्यः ।
कूलंकषस्तनेभ्यः
कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ 194 ॥

कोकनदशोणचरणा-
-त्कोमलकुरलालिविजितशैवालात् ।
उत्पलसगंधिनयना-
-दुररीकुर्मो न देवतमान्याम् ॥ 195 ॥

आपाटलाधराणा-
-मानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनाना-
-माकूतानां हरस्य दासोऽहम् ॥ 196 ॥

पुंखितविलासहास-
-स्फुरितासु पुराहितांकनिलयासु ।
मग्नं मनो मदीयं
कास्वपि कामारिजीवनाडीषु ॥ 197 ॥

ललिता पातु शिरो मे
ललाटमंबा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी
पुष्पशरा पातु लोचनद्वंद्वम् ॥ 198 ॥

पायान्नासां बाला
सुभगा दंतांश्च सुंदरी जिह्वाम् ।
अधरोष्ठमादिशक्ति-
-श्चक्रेशी पातु मे चिरं चिबुकम् ॥ 199 ॥

कामेश्वरी च कर्णौ
कामाक्षी पातु गंडयोर्युगलम् ।
शृंगारनायिकाव्या-
-द्वदनं सिंहासनेश्वरी च गलम् ॥ 200 ॥

स्कंदप्रसूश्च पातु
स्कंधौ बाहू च पाटलांगी मे ।
पाणी च पद्मनिलया
पायादनिशं नखावलीर्विजया ॥ 201 ॥

कोदंडिनी च वक्षः
कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं
कटिं च पायात्कलाधरशिखंडा ॥ 202 ॥

ऊरुद्वयं च पाया-
-दुमा मृडानी च जानुनी रक्षेत् ।
जंघे च षोडशी मे
पायात् पादौ च पाशसृणिहस्ता ॥ 203 ॥

प्रातः पातु परा मां
मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं
पायाद्रात्रौ च भैरवी साक्षात् ॥ 204 ॥

भार्यां रक्षतु गौरीं
पायात् पुत्रांश्च बिंदुगृहपीठा ।
श्रीविद्या च यशो मे
शीलं चाव्याच्चिरं महाराज्ञी ॥ 205 ॥

पवनमयि पावकमयि
क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि
समयमयि प्राणमयि शिवे पाहि ॥ 206 ॥

कालि कपालिनि शूलिनि
भैरवि मातंगि पंचमि त्रिपुरे ।
वाग्देवि विंध्यवासिनि
बाले भुवनेशि पालय चिरं माम् ॥ 207 ॥

अभिनवसिंदूराभा-
-मंब त्वां चिंतयंति ये हृदये ।
उपरि निपतंति तेषा-
-मुत्पलनयनाकटाक्षकल्लोलाः ॥ 208 ॥

वर्गाष्टकमिलिताभि-
-र्वशिनीमुख्याभिरावृतां भवतीम् ।
चिंतयतां सितवर्णां
वाचो निर्यांत्ययत्नतो वदनात् ॥ 209 ॥

कनकशलाकागौरीं
कर्णव्यालोलकुंडलद्वितयाम् ।
प्रहसितमुखीं च भवतीं
ध्यायंतो ये त एव भूधनदाः ॥ 210 ॥

शीर्षांभोरुहमध्ये
शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिंतयता-
-मायुष्यं भवति पुष्कलमवन्याम् ॥ 211 ॥

मधुरस्मितां मदारुणनयनां
मातंगकुंभवक्षोजाम् ।
चंद्रवतंसिनीं त्वां
सविधे पश्यंति सुकृतिनः केचित् ॥ 212 ॥

ललितायाः स्तवरत्नं
ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां
फलानि वक्तुं प्रगल्भते सैव ॥ 213 ॥

सदसदनुग्रहनिग्रह-
-गृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां
दुर्वासा जयति देशिकः प्रथमः ॥ 214 ॥

इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।




Browse Related Categories: