View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

सरस्वती स्तोत्रम् (याज्ञवल्क्य कृतम्)

नारायण उवाच ।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ 1 ॥

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ 2 ॥

संप्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद च पुनः पुनः ॥ 3 ॥

सूर्यस्तं पाठयामास वेदवेदांगमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ 4 ॥

तमित्युक्त्वा दीननाथो ह्यंतर्धानं जगाम सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकंधरः ॥ 5 ॥

याज्ञवल्क्य उवाच ।
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ 6 ॥

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम् ॥ 7 ॥

ग्रंथनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ 8 ॥

लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।
यथांकुरं जनयति भगवान्योगमायया ॥ 9 ॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ 10 ॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ 11 ॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ 12 ॥

हिमचंदनकुंदेंदुकुमुदांभोजसन्निभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ 13 ॥

विसर्ग बिंदुमात्राणां यदधिष्ठानमेव च ।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ 14 ॥

यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते ।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ 15 ॥

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
भ्रमसिद्धांतरूपा या तस्यै देव्यै नमो नमः ॥ 16 ॥

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।
प्रतिभा कल्पनाशक्तिर्या च तस्यै नमो नमः ॥ 17 ॥

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।
बभूव जडवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 18 ॥

तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।
उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ॥ 19 ॥

स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ।
चकार तत्प्रसादेन तदा सिद्धांतमुत्तमम् ॥ 20 ॥

यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ।
बभूव मूकवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 21 ॥

तदा त्वां च स तुष्टाव संत्रस्तः कश्यपाज्ञया ।
ततश्चकार सिद्धांतं निर्मलं भ्रमभंजनम् ॥ 22 ॥

व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् ।
मौनीभूतः स सस्मार त्वामेव जगदंबिकाम् ॥ 23 ॥

तदा चकार सिद्धांतं त्वद्वरेण मुनीश्वरः ।
स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ 24 ॥

पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।
त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ॥ 25 ॥

तदा त्वत्तो वरं प्राप्य स कवींद्रो बभूव ह ।
तदा वेदविभागं च पुराणानि चकार ह ॥ 26 ॥

यदा महेंद्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।
क्षणं त्वामेव संचिंत्य तस्यै ज्ञानं दधौ विभुः ॥ 27 ॥

पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ।
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ 28 ॥

तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ 29 ॥

अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।
ते च त्वां परिसंचिंत्य प्रवर्तंते सुरेश्वरि ॥ 30 ॥

त्वं संस्तुता पूजिता च मुनींद्रमनुमानवैः ।
दैत्येंद्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ 31 ॥

जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ।
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ 32 ॥

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः ।
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ 33 ॥

तदा ज्योतिस्स्वरूपा सा तेनादृष्टाप्युवाच तम् ।
सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम ह ॥ 34 ॥

याज्ञवल्क्य कृतं वाणीस्तोत्रं यः संयतः पठेत् ।
स कवींद्रो महावाग्मी बृहस्पति समो भवेत् ॥ 35 ॥

महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।
स पंडितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ 35 ॥

इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृति खंडे नारद नारायण संवादे याज्ञवल्क्योक्त वाणी स्तवनं नाम पंचमोऽध्यायः ॥




Browse Related Categories: