View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

कल्याणवृष्टि स्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-
-र्लक्ष्मीस्वयंवरणमंगलदीपिकाभिः ।
सेवाभिरंब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ 1 ॥

एतावदेव जननि स्पृहणीयमास्ते
त्वद्वंदनेषु सलिलस्थगिते च नेत्रे ।
सांनिध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ 2 ॥

ईशत्वनामकलुषाः कति वा न संति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ 3 ॥

लब्ध्वा सकृत्त्रिपुरसुंदरि तावकीनं
कारुण्यकंदलितकांतिभरं कटाक्षम् ।
कंदर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयंति तरुणीर्भुवनत्रयेऽपि ॥ 4 ॥

ह्रीं‍कारमेव तव नाम गृणंति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यंति नंदनवने सह लोकपालैः ॥ 5 ॥

हंतुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्थं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ 6 ॥

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदंघ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ 7 ॥

कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरंब भवात्कटाक्षैः ।
आलोकय त्रिपुरसुंदरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ 8 ॥

हंतेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहंति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव ॥ 9 ॥

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-
-मालोकय त्रिपुरसुंदरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा ॥ 10 ॥

ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ 11 ॥

संपत्कराणि सकलेंद्रियनंदनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयंतु नान्यम् ॥ 12 ॥

कल्पोपसंहृतिषु कल्पिततांडवस्य
देवस्य खंडपरशोः परभैरवस्य ।
पाशांकुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ 13 ॥

लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुंकुमपंकशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ 14 ॥

ह्रीं‍कारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणंति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसंभवादेः ॥ 15 ॥

ह्रीं‍कारत्रयसंपुटेन महता मंत्रेण संदीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मंत्रवित् ।
तस्य क्षोणिभुजो भवंति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभारिता जागर्ति दीर्घं वयः ॥ 16 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टि स्तवः ।




Browse Related Categories: