View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

गौरी दशकं

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरंतश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुंजां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 1 ॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयंतीम् ।
सत्यज्ञानानंदमयीं तां तनुरूपां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 2 ॥

चंद्रापीडानंदितमंदस्मितवक्त्रां
चंद्रापीडालंकृतनीलालकभाराम् ।
इंद्रोपेंद्राद्यर्चितपादांबुजयुग्मां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 3 ॥

आदिक्षांतामक्षरमूर्त्या विलसंतीं
भूते भूते भूतकदंबप्रसवित्रीम् ।
शब्दब्रह्मानंदमयीं तां तटिदाभां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 4 ॥

मूलाधारादुत्थितवीथ्या विधिरंध्रं
सौरं चांद्रं व्याप्य विहारज्वलितांगीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 5 ॥

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 6 ॥

यस्याः कुक्षौ लीनमखंडं जगदंडं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरंतीं
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 7 ॥

यस्यामोतं प्रोतमशेषं मणिमाला-
-सूत्रे यद्वत्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 8 ॥

नानाकारैः शक्तिकदंबैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 9 ॥

आशापाशक्लेशविनाशं विदधानां
पादांभोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धांगहरां तामभिरामां
गौरीमंबामंबुरुहाक्षीमहमीडे ॥ 10 ॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
-द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ 11 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गौरी दशकम् ।




Browse Related Categories: