View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

अगस्त्य कृत श्री लक्ष्मी स्तोत्रं

जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ 1 ॥

महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ 2 ॥

पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ 3 ॥

जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।
दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ 4 ॥

नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि ।
वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥ 5 ॥

रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे ।
दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥ 6 ॥

नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि ।
ब्रह्मादयो नमंति त्वां जगदानंददायिनि ॥ 7 ॥

विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते ।
आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥ 8 ॥

अब्जवासे नमस्तुभ्यं चपलायै नमो नमः ।
चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥ 9 ॥

नमः प्रद्युम्नजननि मातस्तुभ्यं नमो नमः ।
परिपालय मां मातः मां तुभ्यं शरणागतम् ॥ 10 ॥

शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥ 11 ॥

पांडित्यं शोभते नैव न शोभंते गुणा नरे ।
शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥ 12 ॥

तावद्विराजते रूपं तावच्छीलं विराजते ।
तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥ 13 ॥

लक्ष्मि त्वयाऽलंकृतमानवा ये
पापैर्विमुक्ता नृपलोकमान्याः ।
गुणैर्विहीना गुणिनो भवंति
दुश्शीलिनः शीलवतां वरिष्ठाः ॥ 14 ॥

लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् ।
लक्ष्मीर्भूषयते विद्यां सर्वा लक्ष्मीर्विशिष्यते ॥ 15 ॥

लक्ष्मी त्वद्गुणकीर्तनेन कमला भूर्यात्यलं जिह्मताम्
रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमाः ।
अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते
मातर्मां परिपाहि विश्वजननी कृत्वा ममेष्टं ध्रुवम् ॥ 16 ॥

दीनार्तिभीतं भवतापपीडितं
धनैर्विहीनं तव पार्श्वमागतम् ।
कृपानिधित्वान्मम लक्ष्मि सत्वरं
धनप्रदानाद्धननायकं कुरु ॥ 17 ॥

मां विलोक्य जननी हरिप्रिये
निर्धनं तव समीपमागतम् ।
देहि मे झटिति लक्ष्मि कराग्रं
वस्त्रकांचनवरान्नमद्भुतम् ॥ 18 ॥

त्वमेव जननी लक्ष्मीः पिता लक्ष्मीस्त्वमेव च ।
भ्राता त्वं च सखा लक्ष्मीर्विद्या लक्ष्मीस्त्वमेव च ॥ 19 ॥

त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि ।
त्राहि त्राहि जगन्मातः दारिद्र्यात्त्राहि वेगतः ॥ 20 ॥

नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः ।
धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनी ॥ 21 ॥

दारिद्र्यार्णवमग्नोऽहं निमग्नोऽहं रसातले ।
मज्जंतं मां करे धृत्वा तूद्धर त्वं रमे द्रुतम् ॥ 22 ॥

किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः ।
अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥ 23 ॥

एतच्छ्रुत्वाऽगस्त्यवाक्यं हृष्यमाणा हरिप्रिया ।
उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥ 24 ॥

श्रीलक्ष्मीरुवाच ।
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥ 25 ॥

नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति ।
ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥ 26 ॥

यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः ।
गृहे तस्य सदा तिष्टेन्नित्यं श्रीः पतिना सह ॥ 27 ॥

सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान्भवेत् ।
पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥ 28 ॥

इदं स्तोत्रं महापुण्यं लक्ष्म्यागस्त्यप्रकीर्तितम् ।
विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥ 29 ॥

राजद्वारे जयश्चैव शत्रोश्चैव पराजयः ।
भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ 30 ॥

न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते ।
दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥ 31 ॥

मंदुराकरिशालासु गवां गोष्ठे समाहितः ।
पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥ 32 ॥

सर्वसौख्यकरं नॄणामायुरारोग्यदं तथा ।
अगस्त्यमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ 33 ॥

इत्यगस्त्यविरचितं श्री लक्ष्मी स्तोत्रम् ।




Browse Related Categories: