View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

गायत्र्यष्टकं (गयत्री अष्टकं)

विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खंडेंदुभूषोज्ज्वलाम् ।
तांबूलारुणभासमानवदनां मार्तांडमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 1 ॥

जातीपंकजकेतकीकुवलयैः संपूजितांघ्रिद्वयां
तत्त्वार्थात्मिकवर्णपंक्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 2 ॥

मंजीरध्वनिभिः समस्तजगतां मंजुत्वसंवर्धनीं
विप्रप्रेंखितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 3 ॥

कांचीचेलविभूषितां शिवमयीं मालार्धमालादिका-
-न्बिभ्राणां परमेश्वरीं शरणदां मोहांधबुद्धिच्छिदाम् ।
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 4 ॥

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।
मातुर्दास्यविलोचनैकमतिमत्खेटींद्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 5 ॥

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहारसुमालिकां सुविलसद्रत्नेंदुकुंभांतराम् ।
राकाचंद्रमुखीं रमापतिनुतां शंखादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 6 ॥

वेणीभूषितमालकध्वनिकरैर्भृंगैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।
नासालंकृतमौक्तिकेंदुकिरणैः सायंतमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 7 ॥

पादाब्जांतररेणुकुंकुमलसत्फालद्युरामावृतां
रंभानाट्यविलोकनैकरसिकां वेदांतबुद्धिप्रदाम् ।
वीणावेणुमृदंगकाहलरवान् देवैः कृतांछृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 8 ॥

हत्यापानसुवर्णतस्करमहागुर्वंगनासंगमा-
-ंदोषांछैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः ।
गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा
जप्त्वा यांति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ 9 ॥

इति श्रीमच्छंकराचार्य विरचितं श्री गायत्र्यष्टकम् ।




Browse Related Categories: