सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ 1॥
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठ-म्पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 2॥
तस्माद्वा इन्द्रो-ऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठ-म्पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 3॥
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा(3) इती-न्न्यमीमिषदा(3) इत्यधिदैवतम् ॥ 4॥
अथाध्यात्मं-यँद्देतद्गच्छतीव च मनो-ऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ 5॥
तद्ध तद्वन-न्नाम तद्वनमित्युपासितव्यं स य एतदेवं-वेँदाभि हैनग्ं सर्वाणि भूतानि संवाँञ्छन्ति ॥ 6॥
उपनिषद-म्भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं-वाँव त उपनिषदमब्रूमेति ॥ 7॥
तसै तपो दमः कर्मेति प्रतिष्ठा वेदा-स्सर्वाङ्गानि सत्यमायतनम् ॥ 8॥
यो वा एतामेवं-वेँदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ 9॥
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षु-श्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व-म्ब्रह्मौपनिषद-म्मा-ऽह-म्ब्रह्म निराकुर्या-म्मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरण-म्मे-ऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ इति केनोपनिषत् ॥