View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

केन उपनिषद् - द्वितीयः खण्डः

यदि मन्यसे सुवेदेति दहरमेवापि
नून-न्त्वं-वेँत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं-यँदस्य देवेष्वथ नु
मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1॥

नाह-म्मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2॥

यस्यामत-न्तस्य मत-म्मतं-यँस्य न वेद सः ।
अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् ॥ 3॥

प्रतिबोधविदित-म्मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं-विँद्यया विन्दते-ऽमृतम् ॥ 4॥

इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवन्ति ॥ 5॥

॥ इति केनोपनिषदि द्वितीयः खण्डः ॥




Browse Related Categories: