अन्नमय्य कीर्तन किं करिष्यामि
किं करिष्यामि किं करोमि बहुल- शंकासमाधानजाड्यं वहामि ॥ नारायाणं जगन्नाथं त्रिलोकैक- पारायणं भक्तपावनं । दूरीकरोम्यहं दुरितदूरेण सं- सारसागरमग्नचंचलत्वेन ॥ तिरुवेंकटाचलाधीश्वरं करिराज- । वरदं शरणागतवत्सलं । परमपुरुषं कृपाभरणं न भजामि मरणभवदेहाभिमानं वहामि॥
Browse Related Categories: