अन्नमय्य कीर्तन किं करिष्यामि
किं करिष्यामि किं करोमि बहुल- शङ्कासमाधानजाड्यं वहामि ॥ नारायाणं जगन्नाथं त्रिलोकैक- पारायणं भक्तपावनं । दूरीकरोम्यहं दुरितदूरेण सं- सारसागरमग्नचञ्चलत्वेन ॥ तिरुवेङ्कटाचलाधीश्वरं करिराज- । वरदं शरणागतवत्सलं । परमपुरुषं कृपाभरणं न भजामि मरणभवदेहाभिमानं वहामि॥
Browse Related Categories: