View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अन्नमय्य कीर्तन राधा माधव रति चरितमिति


राधामाधवरतिचरितमिति
बोधावहं श्रुतिभूषणं ॥

गहने द्वावपि गत्वा गत्वा
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसंतौ
विहतगृहाशौ विवशौ तौ ॥

लज्जाशभल विलासलीलया
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति
स्सज्जा संभ्रमचपला जाता ॥

पुरतो यांतं पुरुषं वकुलैः
कुरंटकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ॥

हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरंचण संपादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ॥

विधुमुखदर्शन विकलितलज्जा-
त्वधरबिंबफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ॥

सुरुचिरकेतक सुमदल नखरै-
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ॥

वचन विलासैर्वशीकृत तं
निचुलकुंज मानितदेशे ।
प्रचुरसैकते पल्लवशयने-
रचितरतिकला रागेणास ॥

अभिनवकल्याणांचितरूपा-
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेंकट
विभुना सा तद्विधिना सतया ॥

सच लज्जावीक्षणो भवति तं
कचभरां गंधं घ्रापयति ।
नचलतिचेन्मानवती तथापि
कुचसंगादनुकूलयति ॥

अवनतशिरसाप्यति सुभगं
विविधालापैर्विवशयति ।
प्रविमल कररुहरचन विलासै
र्भुवनपति तं भूषयति ॥

लतागृहमेलनं नवसै
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वांछंतौ ।

वनकुसुम विशदवरवासनया-
घनसाररजोगंधैश्च ।
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ॥

एवं विचरन् हेला विमुख-
श्रीवेंकटगिरि देवोयं ।
पावनराधापरिरंभसुख-
श्री वैभवसुस्थिरो भवति ॥




Browse Related Categories: