View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः

॥ द्वितीय मुंडके प्रथमः खंडः ॥

तदेतत् सत्यं
यथा सुदीप्तात् पावकाद्विस्फुलिंगाः
सहस्रशः प्रभवंते सरूपाः ।
तथाऽक्षराद्विविधाः सोम्य भावाः
प्रजायंते तत्र चैवापि यंति ॥ 1॥

दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यंतरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ 2॥

एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि च ।
खं-वाँयुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ 3॥

अग्नीर्मूर्धा चक्षुषी चंद्रसूर्यौ
दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं-विँश्वमस्य पद्भ्यां
पृथिवी ह्येष सर्वभूतांतरात्मा ॥ 4॥

तस्मादग्निः समिधो यस्य सूर्यः
सोमात् पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिंचति योषितायां
बह्वीः प्रजाः पुरुषात् संप्रसूताः ॥ 5॥

तस्मादृचः साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
सं​वँत्सरश्च यजमानश्च लोकाः
सोमो यत्र पवते यत्र सूर्यः ॥ 6॥

तस्माच्च देवा बहुधा संप्रसूताः
साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च
श्रद्धा सत्यं ब्रह्मचर्यं-विँधिश्च ॥ 7॥

सप्त प्राणाः प्रभवंति तस्मात्
सप्तार्चिषः समिधः सप्त होमाः ।
सप्त इमे लोका येषु चरंति प्राणा
गुहाशया निहिताः सप्त सप्त ॥ 8॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात्
स्यंदंते सिंधवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च
येनैष भूतैस्तिष्ठते ह्यंतरात्मा ॥ 9॥

पुरुष एवेदं-विँश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां
सोऽविद्याग्रंथिं-विँकिरतीह सोम्य ॥ 10॥

॥ इति मुंडकोपनिषदि द्वितीयमुंडके प्रथमः खंडः ॥




Browse Related Categories: