(वा॒म॒देवा॒य न॑मः – स्नानं)
इत्यादि निर्माल्यं-विँसृज्येत्यंतं प्रतिवारं कुर्यात् ॥
॥ पंचामृतस्नानम् ॥
अथ (पंचामृत स्नानं) पंचामृतदेवताभ्यो नमः ।
ध्यानावाहनादि षोडशोपचारपूजास्समर्पयामि ।
भवानीशंकरमुद्दिश्य भवानीशंकर प्रीत्यर्थं पंचामृतस्नानं करिष्यामः ।
क्षीरं
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य संग॒थे ॥
श्री भवानीशंकरास्वामिने नमः क्षीरेण स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । क्षीरस्नानानंतरं शुद्धोदक स्नानं समर्पयामि ।
दधि
द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
श्री भवानीशंकरास्वामिने नमः । दध्ना स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । दधिस्नानानंतरं शुद्धोदक स्नानं समर्पयामि ।
आज्यं
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒-
त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
श्री भवानीशंकरास्वामिने नमः । आज्येन स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । आज्य स्नानानंतरं शुद्धोदक स्नानं समर्पयामि ।
मधु
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरंति॒ सिंध॑वः ।
माध्वी᳚र्नः सं॒त्वोष॑धीः ।
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवंतु नः ।
श्री भवानीशंकरास्वामिने नमः । मधुना स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । मधुस्नानानंतरं शुद्धोदक स्नानं समर्पयामि ।
शर्कर
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिंद्रा॑य सु॒हवी॑तु॒ नाम्ने᳚ ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मा॒ग्ं अदा᳚भ्यः ।
श्री भवानीशंकरास्वामिने नमः । शर्करया स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । शर्कर स्नानानंतरं शुद्धोदक स्नानं समर्पयामि ।
श्री भवानीशंकरास्वामिने नमः । पंचामृत स्नानं समर्पयामि ।
शंखोदकं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । शंखोदकेन स्नपयामि ॥
फलोदकं
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुंचं॒त्वग्ं ह॑सः ॥
श्री भवानीशंकरास्वामिने नमः । फलोदकेन स्नपयामि ।
गंधोदकं
गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
श्री भवानीशंकरास्वामिने नमः । गंधोदकेन स्नपयामि ।
पुष्पोदकं
यो॑ऽपां पुष्पं॒-वेँद॑ ।
पुष्प॑वान् प्र॒जावा॑न् पशु॒मान् भ॑वति ।
चं॒द्रमा॒ वा अ॒पां पुष्प॑म् ।
पुष्प॑वान् प्र॒जावा॑न् पशु॒मान् भ॑वति ।
श्री भवानीशंकरास्वामिने नमः । पुष्पोदकेन स्नपयामि ।
अक्षतोदकं
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहंतु पु॒ष्पिणीः॑ ।
ह्र॒दाश्च॑ पुं॒डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ।
श्री भवानीशंकरास्वामिने नमः । अक्षतोदकेन स्नपयामि ।
सुवर्णोदकं
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् ।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒जन्म॑ ।
य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒वे॑द ।
सु॒वर्ण॑ आ॒त्मना॑ भवति ।
श्री भवानीशंकरास्वामिने नमः । सुवर्णोदकेन स्नपयामि ।
रुद्राक्षोदकं
त्र्यं॑बकं-यँजामहे सुगं॒धिं पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त् ॥
श्री भवानीशंकरास्वामिने नमः । रुद्राक्षोदकेन स्नपयामि ।
भस्मोदकं
मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
श्री भवानीशंकरास्वामिने नमः । भस्मोदकेन स्नपयामि ।
बिल्वोदकं
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्मं॑तो॒
नम॑सा विधेम ते ।
श्री भवानीशंकरास्वामिने नमः । बिल्वोदकेन स्नपयामि ।
दूर्वोदकं
कांडा॑त्कांडात्प्र॒रोहं॑ति परु॑षः परुषः॒ परि॑ ।
ए॒वानो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
श्री भवानीशंकरास्वामिने नमः । दूर्वोदकेन स्नपयामि ।
अथ मलापकर्षण स्नानम् ।
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्विंद्रः॑ ।
अ॒ग्निं-याँ गर्भं॑ दधि॒रे विरू॑पा॒स्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ॥
यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑
सत्यानृ॒ते अ॑व॒पश्यं॒जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ॥
यासां॑ दे॒वा दि॒वि कृ॒ण्वंति॑ भ॒क्षं
या अं॒तरि॑क्षे बहु॒धा भवं॑ति ।
याः पृ॑थि॒वीं पय॑सों॒दंति॑ शु॒क्रास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वंतु ॥
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑
त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।
सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒
वर्चो॒ बल॒मोजो॒ निध॑त्त ॥
(अ.वे., कांड-3, सूक्तं-13)
यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिंधवः ॥ 1
यत्प्रेषि॑ता॒ वरु॑णे॒नताश्शीभ॑ग्ं स॒मव॑ल्गत ।
तदा॑प्नो॒दिंद्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑स्थन ॥ 2
आ॒प॒का॒मग्ग्ं स्यंद॑माना॒ अवी॑वरत वो॒ हि क॑म् ।
इंद्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ॥ 3
एको॑ वो दे॒वो अप्य॑तिष्ठ॒थ्स्यंद॑माना यथाव॒शम् ।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥ 4
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आनुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचां॑ अ॒रं॒ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सागन्न् ॥ 5
आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्म॑ आसाम् ।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ 6
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशंकरास्वामिने नमः । शुद्धोदकेन स्नपयामि ।
[ दि॒विश्र॑यस्वां॒तरि॑क्षेयतस्व पृथि॒व्यासंभ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑त्वा । अ॒पां ग्रहा॑न्गृह्णात्ये॒तद्वाप रा॑ज॒सूयं॒-यँदे॒तेग्रहा॑स्स॒वो॑ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒वलो॒काव॒भिज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒ आपो॑ भवं॒त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो॑ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒परा॑ऽस्य॒भ्रातृ॑व्यो भवत्य॒मृतं॒-वाँ आप॒स्तस्मा॑द॒द्भिरव॑तांतम॒भिषिं॑चंति॒ नार्ति॒मार्छ॑ति॒सर्व॒मायु॑रेति ॥
]
पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पोता॒ स पु॑नातु मा । पु॒नंतु॑ मा देवज॒नाः ।
पु॒नंतु॒ मन॑वो धि॒या । पु॒नंतु॒ विश्व॑ आ॒यवः॑ ।
जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ।
यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमंत॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्यां᳚ देवसवितः ।
प॒वित्रे॑ण स॒वेन॑ च । इ॒दं ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् ।
यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मदं॑तः सध॒माद्ये॑षु ।
व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।
वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥
बृ॒हद्भि॑स्सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः ।
अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यंकशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ।
इ॒दं ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒द्ध्येति॑ ।
ऋषि॑भि॒स्संभृ॑त॒ग्ं॒ रसम्॑ । सर्व॒ग्ं॒ स पू॒तम॑श्नाति ।
स्व॒दि॒तं मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ ।
ऋषि॑भि॒स्संभृ॑त॒ग्ं॒ रसम्᳚ । तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् ॥
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि पय॑स्वतीः ।
ऋषि॑भि॒स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ।
पा॒व॒मा॒नीर्दि॑शंतु नः । इ॒मं-लोँ॒कमथो॑ अ॒मुम् ।
कामा॒न्थ्सम॑र्धयंतु नः । दे॒वीर्दे॒वैस्स॒माभृ॑ताः ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ ।
ऋषि॑भि॒स्संभृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ।
येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मानं॑ पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नंतु मा ।
प्रा॒जा॒प॒त्यं प॒वित्रम्᳚ । श॒तोद्या॑मग्ं हिर॒ण्मयम्᳚ ।
तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒तं ब्रह्म॑ पुनीमहे ।
इंद्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या᳚ ।
य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जयं॑त्या पुनातु ।
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑
प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑
स्व॒राडाप॒श्छंदा॒ग्ं॒स्यापो॒ ज्योती॒ग्ं॒ष्यापो॒
यजू॒ग्ं॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ओम् ॥
अ॒पः प्रण॑यति । श्र॒द्धावा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । य॒ज्ञो वाअ आपः॑ ।
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति
अ॒पः प्रण॑यति । व॒ज्रो वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒पः प्रण॑यति । आपो॒ वै दे॒वानां॑ प्रि॒यंधाम॑ ।
दे॒वाना॑मे॒व प्रि॒यंधाम॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
(आपो॒वैशां॒ताः । शां॒ताभि॑रे॒वास्य॑ शुचग्ं॑शमयति ॥)
श्री भवानीशंकरास्वामिने नमः । मलापकर्षणस्नानं समर्पयामि ।