View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः

॥ तृतीय मुंडके प्रथमः खंडः ॥

द्वा सुपर्णा सयुजा सखाया समानं-वृँक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ 1॥

समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः ।
जुष्टं-यँदा पश्यत्यन्यमीशमस्य
महिमानमिति वीतशोकः ॥ 2॥

यदा पश्यः पश्यते रुक्मवर्णं
कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय
निरंजनः परमं साम्यमुपैति ॥ 3॥

प्रणो ह्येष यः सर्वभूतैर्विभाति
विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा-
नेष ब्रह्मविदां-वँरिष्ठः ॥ 4॥

सत्येन लभ्यस्तपसा ह्येष आत्मा
सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अंतःशरीरे ज्योतिर्मयो हि शुभ्रो
यं पश्यंति यतयः क्षीणदोषाः ॥ 5॥

सत्यमेव जयते नानृतं
सत्येन पंथा विततो देवयानः ।
येनाऽऽक्रमंत्यृषयो ह्याप्तकामा
यत्र तत् सत्यस्य परमं निधानम् ॥ 6॥

बृहच्च तद् दिव्यमचिंत्यरूपं
सूक्ष्माच्च तत् सूक्ष्मतरं-विँभाति ।
दूरात् सुदूरे तदिहांतिके च
पश्यंत्विहैव निहितं गुहायाम् ॥ 7॥

न चक्षुषा गृह्यते नापि वाचा
नान्यैर्देवैस्तपसा कर्मण वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व-
स्ततस्तु तं पश्यते निष्कलं
ध्यायमानः ॥ 8॥

एषोऽणुरात्मा चेतसा वेदितव्यो
यस्मिन् प्राणः पंचधा सं​विँवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां
यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ 9॥

यं-यंँ लोकं मनसा सं​विँभाति
विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं-लोँकं जयते तांश्च कामां-
स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ 10॥

॥ इति मुंडकोपनिषदि तृतीयमुंडके प्रथमः खंडः ॥




Browse Related Categories: