View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

सूर्य ग्रहण शांति परिहार श्लोकाः

शांति श्लोकः
इंद्रोऽनलो दंडधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयंतु सर्वे ॥

ग्रहण पीडा परिहार श्लोकाः
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1

मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चंद्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2

यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3

रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्‍ऋतिः ग्रहपीडां व्यपोहतु ॥ 4

नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5

यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6

योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चंद्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7

योऽसौ शूलधरो रुद्रः शंकरो वृषवाहनः ।
चंद्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8

ॐ शांतिः शांतिः शांतिः ।




Browse Related Categories: