View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

सूर्य ग्रहण शान्ति परिहार श्लोकाः

शान्ति श्लोकः
इन्द्रोऽनलो दण्डधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयन्तु सर्वे ॥

ग्रहण पीडा परिहार श्लोकाः
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1

मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2

यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3

रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्‍ऋतिः ग्रहपीडां व्यपोहतु ॥ 4

नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5

यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6

योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चन्द्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7

योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः ।
चन्द्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8

ॐ शान्तिः शान्तिः शान्तिः ।




Browse Related Categories: