ब्रह्मविष्णुमहेशा ऊचुः ।
अजं निर्विकल्पं निराकारमेकं
निरानंदमद्वैतमानंदपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं
परब्रह्मरूपं गणेशं भजेम ॥ 1 ॥
गुणातीतमाद्यं चिदानंदरूपं
चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं
परब्रह्मरूपं गणेशं भजेम ॥ 2 ॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववंद्यं सुरेशं
परब्रह्मरूपं गणेशं भजेम ॥ 3 ॥
रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं
सदा कार्यसक्तं हृदाचिंत्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं
परब्रह्मरूपं गणेशं नतास्मः ॥ 4 ॥
सदा सत्त्वयोगं मुदा क्रीडमानं
सुरारीन्हरंतं जगत्पालयंतम् ।
अनेकावतारं निजज्ञानहारं
सदा विष्णुरूपं गणेशं नमामः ॥ 5 ॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं
जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयंतं
सदा शर्वरूपं गणेशं नमामः ॥ 6 ॥
तमस्तोमहारं जनाज्ञानहारं
त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरेविकारं
सदा ब्रह्मरूपं गणेशं नमामः ॥ 7 ॥
निजैरोषधीस्तर्पयंतं करोद्यैः
सरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशु संतापहारं द्विजेशं
शशांकस्वरूपं गणेशं नमामः ॥ 8 ॥
प्रकाशस्वरूपं नभोवायुरूपं
विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं
सदा शक्तिरूपं गणेशं नमामः ॥ 9 ॥
प्रधानस्वरूपं महत्तत्त्वरूपं
धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूतं
सदा विश्वरूपं गणेशं नतास्मः ॥ 10 ॥
त्वदीये मनः स्थापयेदंघ्रियुग्मे
जनो विघ्नसंघान्न पीडां लभेत ।
लसत्सूर्यबिंबे विशाले स्थितोऽयं
जनोध्वांत पीडां कथं वा लभेत ॥ 11 ॥
वयं भ्रामिताः सर्वथाऽज्ञानयोगा-
-दलब्धा तवांघ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादा-
-त्प्रपन्नान्सदा पाहि विश्वंभराद्य ॥ 12 ॥
गणेश उवाच ।
इदं यः पठेत्प्रातरुत्थाय धीमान्
त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः ।
सपुत्रान् श्रियं सर्वकामान् लभेत
परब्रह्मरूपो भवेदंतकाले ॥ 13 ॥
इति गणेशपुराणे उपासनाखंडे त्रयोदशोऽध्याये श्रीगणपतिस्तवः ।