View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

कामसिकाष्टकम्

श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् ।
कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ 1 ॥

तपनेंद्वग्निनयनः तापानपचिनोतु नः ।
तापनीयरहस्यानां सारः कामासिका हरिः ॥ 2 ॥

आकंठमादिपुरुषं
कंठीरवमुपरि कुंठितारातिम् ।
वेगोपकंठसंगात्
विमुक्तवैकुंठबहुमतिमुपासे ॥ 3 ॥

बंधुमखिलस्य जंतोः
बंधुरपर्यंकबंधरमणीयम् ।
विषमविलोचनमीडे
वेगवतीपुलिनकेलिनरसिंहम् ॥ 4 ॥

स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेंद्रियः
पर्यंकस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः ।
प्रायेण प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन्
कामानातनुतादशेषजगतां कामासिका केसरी ॥ 5 ॥

विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली-
-निरर्गलविनिर्गलद्रुधिरसिंधुसंध्यायिताः ।
अवंतु मदनासिकामनुजपंचवक्त्रस्य मां
अहंप्रथमिकामिथः प्रकटिताहवा बाहवः ॥ 6 ॥

सटापटलभीषणे सरभसाट्टहासोद्भटे
स्फुरत् क्रुधिपरिस्फुट भ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपाकपटकेसरिन् दनुजडिंभदत्तस्तना
सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ 7 ॥

त्वयि रक्षति रक्षकैः किमन्यै-
-स्त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चितधीः श्रयामि नित्यं
नृहरे वेगवतीतटाश्रयं त्वाम् ॥ 8 ॥

इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः
श्रीवेंकटेशरचितैस्त्रिदशेंद्रवंद्यः ।
दुर्दांतघोरदुरितद्विरदेंद्रभेदी
कामासिकानरहरिर्वितनोतु कामान् ॥ 9 ॥

इति श्रीवेदांतदेशिककृतं कामासिकाष्टकम् ।




Browse Related Categories: