View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री आदित्य (सूर्य) द्वादश नाम स्तोत्रम्

आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ 1 ॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ 2 ॥

नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ 3 ॥

द्वादशादित्यनामानि प्रातः काले पठेन्नरः ।
दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥ 4 ॥

दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥ 5 ॥

यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ 6 ॥

इति श्री आदित्य द्वादशनाम स्तोत्रम् ।




Browse Related Categories: