View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

यज्ञोपवीत धारण

"गायन्त-न्त्रायते इति गायत्री"

ओ-म्भूर्भुव॒स्सुवः॑ ॥
तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥

1। शरीर शुद्धि

श्लो॥ अपवित्रः पवित्रो वा सर्वावस्था᳚-ङ्गतो-ऽपिवा ।
य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥

2। आचमनम्
ॐ आचम्य । ओ-ङ्केशवाय स्वाहा । ओ-न्नारायणाय स्वाहा । ओ-म्माधवाय स्वाहा । ओ-ङ्गोविन्दाय नमः । ॐ-विँष्णवे नमः । ओ-म्मधुसूदनाय नमः । ओ-न्त्रिविक्रमाय नमः । ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ओ-म्पद्मनाभाय नमः । ओ-न्दामोदराय नमः । ॐ सङ्कर्​षणाय नमः । ॐ-वाँसुदेवाय नमः । ओ-म्प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ओ-म्पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ओ-न्नारसिंहाय नमः । ॐ अच्युताय नमः । ओ-ञ्जनार्धनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।

3। भूतोच्चाटन
उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः ।
ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ओ-म्भूर्भुवस्सुवः ।

4। प्राणायामम्
ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।
ओ-न्तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचोदया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27)

5। सङ्कल्पम्
ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थम्, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वन्तरे, कलियुगे, प्रथमपादे, जम्भूद्वीपे, भरतवर्​षे, भरतखण्डे, अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन ------- सं​वँत्सरे ------ अयने ------- ऋतौ ------- मासे ------- पक्षे ------- तिधौ ------ वासरे -------- शुभनक्षत्रे (भारत देशः - जम्बू द्वीपे, भरत वर्​षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्​षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये) शुभयोगे शुभकरण एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् -------- गोत्रस्य ------- नामधेयस्य (विवाहितानाम् - धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेस्वर प्रीत्यर्ध-म्मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्ध-न्नूतन यज्ञोपवीतधारण-ङ्करिष्ये ।

6। यज्ञोपवीत धारण

यज्ञोपवीत प्राण प्रतिष्ठापन-ङ्करिष्ये।

श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चर-न्तमनुमते मृडया न-स्स्स्वस्ति ॥ ऋ.वे. - 10.59.6
अमृतं-वैँ प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।

7। यज्ञोपवीत मन्त्रम्

श्लो॥ यज्ञोपवीते तस्य मन्त्रस्य परमेष्टि परब्रह्मर्​षिः ।
परमात्म देवता, देवी गायत्रीच्छन्दः ।
यज्ञोपवीत धारणे विनियोगः ॥

8। यज्ञोपवीत धारण मन्त्रम्

श्लो॥ यज्ञोपवीत-म्परम-म्पवित्र-म्प्रजापतेर्यत्सहज-म्पुरस्तात् ।
आयुष्यमग्र्य-म्प्रतिमुञ्च शुभ्रं-यँज्ञोपवीत-म्बलमस्तु तेजः ॥

9। जीर्ण यज्ञोपवीत विसर्जन

श्लो॥ उपवीत-ञ्छिन्नतन्तु-ञ्जीर्ण-ङ्कश्मलदूषितं
विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥
ॐ शान्ति शान्ति शान्तिः

चतुस्सागर पर्यन्त-ङ्गो ब्राह्मणेभ्य-श्शुभ-म्भवतु ।
---------- प्रवरान्वित --------- गोत्रोत्पन्न --------- शर्म --------- अह-म्भो अभिवादये ।

समर्पण

यस्य स्मृत्या च नामोक्त्या तपस्सन्ध्या क्रियादिषु
न्यूनं सम्पूर्णतां-याँति सद्यो वन्दे तमच्युतम् ।
मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीनं रमापते
यत्कृत-न्तु मया देव परिपूर्ण-न्तदस्तु मे ॥

अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयन्तां-वँरदो भवतु ।
श्री कृष्णार्पणमस्तु ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्या‌உत्मना वा प्रकृते स्स्वभावात् ।
करोमि यद्यत्सकल-म्परस्मै श्रीमन्नारायणायेति समर्पयामि ॥




Browse Related Categories: