View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चाणक्य नीति - त्रयोदशोऽध्यायः

मुहूर्तमपि जीवेच्च नरः शुक्लेन कर्मणा ।
न कल्पमपि कष्टेन लोकद्वयविरोधिना ॥ 01 ॥

गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत् ।
वर्तमानेन कालेन वर्तयंति विचक्षणाः ॥ 02 ॥

स्वभावेन हि तुष्यंति देवाः सत्पुरुषाः पिता ।
ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पंडिताः ॥ 03 ॥

आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पंचैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः ॥ 04 (4.1) ॥

अहो बत विचित्राणि चरितानि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यंते तद्भारेण नमंति च ॥ 05 ॥

यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम् ।
स्नेहमूलानि दुःखानि तानि त्यक्त्वा वसेत् सुखम् ॥ 06 ॥

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा ।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ 07 ॥

राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः ।
राजानमनुवर्तंते यथा राजा तथा प्रजाः ॥ 08 ॥

जीवंतं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।
मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः ॥ 09 ॥

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ 10 ॥

दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना ।
अशक्तास्तत्पदं गंतुं ततो निंडां प्रकुर्वते ॥ 11 ॥

बंधाय विषयासंगो मुक्त्यै निर्विषयं मनः ।
मन एव मनुष्याणां कारणं बंधमोक्षयोः ॥ 12 ॥

देहाभिमाने गलितं ज्ञानेन परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ 13 ॥

ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् ।
दैवायत्तं यतः सर्वं तस्मात्संतोषमाश्रयेत् ॥ 14 ॥

यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥ 15 ॥

अनवस्थितकार्यस्य न जने न वने सुखम् ।
जनो दहति संसर्गाद्वनं संगविवर्जनात् ॥ 16 ॥

खनित्वा हि खनित्रेण भूतले वारि विंदति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ 17 ॥

कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
तथापि सुधियश्चार्या सुविचार्यैव कुर्वते ॥ 18 ॥

एकाक्षरप्रदातारं यो गुरुं नाभिवंदते ।
श्वानयोनिशतं गत्वा चांडालेष्वभिजायते ॥ 19 ॥

युगांते प्रचलेन्मेरुः कल्पांते सप्त सागराः ।
साधवः प्रतिपन्नार्थान्न चलंति कदाचन ॥ 20 ॥

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखंडेषु रत्नसंज्ञा विधीयते ॥ 21 ॥




Browse Related Categories: