View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

ब्रह्मज्ञानावलीमाला

सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।
ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ 1॥

असंगोऽहमसंगोऽहमसंगोऽहं पुनः पुनः ।
सच्चिदानंदरूपोऽहमहमेवाहमव्ययः ॥ 2॥

नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।
भूमानंदस्वरूपोऽहमहमेवाहमव्ययः ॥ 3॥

नित्योऽहं निरवद्योऽहं निराकारोऽहमुच्यते ।
परमानंदरूपोऽहमहमेवाहमव्ययः ॥ 4॥

शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।
अखंडानंदरूपोऽहमहमेवाहमव्ययः ॥ 5॥

प्रत्यक्चैतन्यरूपोऽहं शांतोऽहं प्रकृतेः परः ।
शाश्वतानंदरूपोऽहमहमेवाहमव्ययः ॥ 6॥

तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।
मायातीतः परंज्योतिरहमेवाहमव्ययः ॥ 7॥

नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः ।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ 8॥

मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ 9॥

गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।
अनंतानंतरूपोऽहमहमेवाहमव्ययः ॥ 10॥

अंतर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।
परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥ 11॥

निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।
अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ 12॥

द्वंद्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ 13॥

प्रज्ञानघन एवाहं विज्ञानघन एव च ।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ 14॥

निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ 15॥

तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ॥ 16॥

दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्यं मायेति सर्ववेदांतडिंडिमः ॥ 17॥

अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।
स एव मुक्तः सो विद्वानिति वेदांतडिंडिमः ॥ 18॥

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तद्वद्ब्रह्म जगत्सर्वमिति वेदांतडिंडिमः ॥ 19॥

ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।
अनेन वेद्यं सच्छास्त्रमिति वेदांतडिंडिमः ॥ 20॥

अंतर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।
ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥ 21॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
ब्रह्मज्ञानावलीमाला संपूर्णा ॥




Browse Related Categories: